Posts

Showing posts from May, 2020

Dhātukārikā - bhvādigaṇaḥ

॥ श्रीः शुभमस्तु ॥ This page is a work in progress until this message appears here. The whole work has about 700 shlokas and they are being uploaded after correcting typographical errors available in the two versions available. ॥ धातुकारिका प्रारम्भः ॥ नत्वा नटेशं निखिलवर्णाम्नायादिदेशिकाम् । श्रीकण्ठस्तनुते धातुकारिकां बालरञ्जनीम् ॥१॥ कोशमामरसिंहं च बोधार्थं नामलिङ्गयोः । धर्माधिकारि श्रीचक्रवर्त्यय्यङ्गार्यनिर्मिताम् ॥२॥ सुबन्तशब्दभेदानां बोधिनीं शब्दकारिकाम् । अभ्यस्य तद्वद्धातूनामपि बोधार्थमिच्छताम् ॥३॥ दुरध्ययत्वात्प्राचीनधातुपाठस्य सीदताम् । कौतुकाद्याचमानानां बालानां परितुष्टये ॥४॥ प्राग्धातुपाठ एवाद्य काव्यमार्गे चरिष्णुभिः । सुपठाभिस्सुबोधाभिः कारिकाभिर्यथाक्रमम् ॥५॥ सङ्गृह्यतेऽत्र सुधियो गर्हन्तां मां स्तुवन्तु वा । भ्वाद्यादयो दशगणास्तथा कण्ड्वादिधातवः ॥६॥ आत्मनेपदिनश्चात्र परस्मैपदिनस्तथा । द्वयवन्तस्तथा सेटोऽनिटश्चामिन्मितोऽखिलाः ॥७॥ अनुबन्धनिबन्धाश्च तत्तत्कार्यप्रयोजनाः । निरूप्यन्तेऽर्थनिर्देशो भैमसेनोऽपि दुर्गमः ॥८॥ प्राचां व्याख्याक्रमेणैव विशदीक्रियते मनाक् । पद्ये य