Posts

Showing posts from 2020

Dhātukārikāḥ - Aniṭkārikāḥ

॥ अथानिट्कारिकाः ॥ उदात्ता अनुदात्ताश्चेत्येवं द्वेधा हि धातवः। उदात्तेभ्यो वलाद्यार्धधातुकस्येड्भवेदिह॥१॥ न स स्यादनुदात्तेभ्योऽतस्सङ्गृह्य पुरातनैः। पठिताः कारिकाभिस्ते कथ्यन्ते धातवः क्रमात्॥२॥ उदृदन्तैर्यौतिरु क्ष्णु शीङ् ष्णु, णु, क्षु, श्वि, डीङ्, श्रिभिः। वृङ्वृञ्भ्यां च विनैकाचोऽजन्तेषु निहताः स्मृताः॥३॥ शकॢ, पच्, मुच्, रिच्, वच्, विच्, सिच्, सिङ्,प्रच्छ्,त्यज्, निजिर्, भजः। भञ्ज्, भुज्, भ्रस्ज्, मस्जि, यज्, युज्, रुज्, रञ्ज्, विजिर्, स्वञ्जि, सञ्ज्, सृजः॥४॥ अद्, क्षुद्, खिद्, छिद्, तुदि, नुदः, पद्य, भिद्, विद्यतिर्विनिद्। शद्, सदी, स्विद्यतिस्स्कन्दिहदी, क्रुध्, क्षुधि, बुध्यती॥५॥ बन्धिर्युधि, रुधी, राधि, व्यध्, शुधः साधि सिध्यती । मन्य,हन्न्,आप्,क्षिप्,छुपि,तप्,तिपस्तृप्यतिदृप्यती॥६॥ लिप्,लुप्,वप्,शप्,स्वप्,सृपि यभ्,रभ्,लभ्,गम्,नम्,यमो,रमिः। क्रुशिर्दंशिदिशी,दृश्,मृश्,रिश्,रुश्,लिश्,विश्,स्पृशः कृषिः॥७॥ त्विष्,तुष्,द्विष्,दुष्,पुष्य,पिष्,विष्,शिष्,शुष्, श्लिष्यतयो घसिः। वसतिर्दह,दिहि,दुहो नह्,मिह्,रुह्, लिह्, वहिस्तथा॥८॥ अनुदात्ता हलन्तेषु धातवो द्व्यधिकं शतम्। कचच्छजादधनपाभम

Dhātukārikā - Kaṇḍvādigaṇaḥ

॥ अथ कण्ड्वादयः ॥ कण्डूञ् गात्रविघर्षे स्यान्मन्तुराग(सि) प्रकीर्तितः। एके रोष इति प्राहुः चन्द्र आह ञिदित्यमुम्॥१॥ पूजामाधुर्ययोर्वल्गुरुपतापेऽसुरीरितः। अस्वसूञिति चैकेऽथ लेट् लोटौ स्वप्नधौर्त्ययोः॥२॥ पूर्वभावे चाथ दीप्तावित्येके प्रवदन्ति हि। लेला दीप्तावथेर्ष्यायामिरस् चेरजिरञ् तथा॥३॥ उषस् प्रभातभावे स्याद्वेदस्स्यात्स्वप्नधौर्त्ययोः। आशुग्रहणवाची स्यान्मेधाः क्षेपे कुषुभ्यतिः॥४॥ नीचः स्याद्दास्य इत्यन्ये मगधः परिवेष्टने। तन्तस् पम्पसिमौ दुःखे तत्क्रियायां तु कीर्तितौ॥५॥ सुखदुःखावथ बुधैः पूजायां स परो मतः। आरायाः कर्मणि भवेदररोऽथ चिकित्सने॥६॥ भिषक्स्यादथ भिष्णज् तूपसेवायां प्रकीर्तितः। इषुधस्स्याच्छरधृतौ चरणो वरणो गतौ॥७॥ चुरणश्चौर्य आख्यातस्त्वरायां तुरणस्स्मृतः। धारणे पोषणे च स्याद्भुरणो गद्गदस्तु सः॥८॥ वाक्स्खालित्येऽथ स्युरेला केला खेला विलासने। इल इत्यपरे प्राहुः लेखा स्यात्स्खलनेऽपि च॥९॥ अदन्तोऽयमिति त्वन्ये ह्यल्पकुत्सनयोर्लिटः। लाटो जीवन आख्यातो लज्जारोषणयोर्हृणीङ्॥१०॥ पूजायां स्यान्महीङ् रेखा श्लाघायां साधनेऽपि च। परितापे चापि परिचरणे च द्रवस्स्मृतः॥११॥ तिरत्स्वन्तर्धिवाची स

Dhātukārikā - Curādigaṇaḥ

॥ अथ चुरादयः ॥ चुरस्स्तेये चितिस्स्मृत्यां यत्रिस्सङ्कोचने मतः। स्फुडिस्स्यात्परिहासेऽत्र पाठान्तरमिति स्फुटिः॥१॥ दर्शनाङ्कनयोर्लक्षः कुद्रिस्त्वनृतभाषणे। कुडीत्येके प्राहुरथोपसेवायां लडः स्मृतः॥२॥ मिदिर्भवेत्स्नेहनेऽथो लडिरुत्क्षेपणे मतः। इदत्रौकार इत्येक उकारादिरितीतरे॥३॥ जलोपवारणे प्रोक्तो लज इत्येक ऊचिरे। पीडोऽवगाहने प्रोक्तो नटोऽवस्कन्दने मतः॥४॥ नाट्यं त्ववस्कन्दनं स्यात्प्रयत्ने श्रथ ईरितः। एके प्रस्थान इत्याहुर्बधस्संयमने मतः॥५॥ बन्धेति प्राह चन्द्रः पॄः पूरणेथोऽर्ज उच्यते। बलप्राणनयोः पक्षः परिग्रह उदीरितः॥६॥ वर्णश्चूर्णः प्रेरणेऽन्ये वर्णो वर्णन इत्यपि। उक्तः प्रथस्तु प्रख्याने पृथः प्रक्षेप ईरितः॥७॥ प्राहुरेके पथ इति सम्बन्धे षम्ब ईर्यते। शम्बश्च साम्ब इत्येके भक्षस्त्वदन इष्यते॥८॥ चेदने भर्त्सने कुटृ एके पूरण इत्यपि। अल्पीभावे पुटृ चुट्टावटृ-षुट्टावनादरे॥९॥ लुण्टस्स्त्येये श्वठ शठावसंस्कारे गतावपि। श्वठीत्येके तुजिपिजी हिंसादानबलेष्वथ॥१०॥ निकेतने चाथ तुजः पिज इत्यपरे जगुः। एके प्राहुर्लजिलुजी इति गत्यां पिसः स्मृतः॥११॥ षान्त्वस्सामप्रयोगेऽथ परिभाषण ईरितौ। श्वल्कवल्कौ स्नेहने

Dhātukārikā - Kryādigaṇaḥ

॥अथ क्र्यादयः॥ डु क्रीञ्विनिमये द्रव्यकर्मके समुदीरितः। प्रीञ् तर्पणे स्यात्कान्तौ च श्रीञ् पाके मीञ् तु हिंसने॥१॥ षिञ् बन्धनेऽथाप्रवणे स्कुञ् क्रीञाद्या इहानिटः। स्तन्भुस्स्तुन्भुस्तथा स्कन्भुस्स्कुन्भुश्चेति चतुष्टयम्॥२॥ सौत्रं सर्वं रोधनार्थं परस्मैपदिसेड्भवेत्। प्रथमश्च तृतीयश्च स्तम्भार्थौ परिकीर्तितौ॥३॥ निष्कोषणे द्वितीयस्याच्चतुर्थस्त्ववधारणे। इत्याह माधवो युञ् तु बन्धनेऽनिट् प्रकीर्तितः॥४॥ क्नूञ् शब्दे द्रूञ् तु हिंसायां पवने पूञ् प्रकीर्तितः। लूञ् छेदने कथ्यतेऽथ स्तॄञ् आच्छादन ईर्यते॥५॥ कॄञ् हिंसायां वॄञ् वरणे धूञ् कम्पन उदीर्यते। त्रयोविंशतिराख्याता बध्नात्यन्ता यथाक्रमम्॥६॥ परस्मैपदिनः शॄस्स्याद्धिसायामथ पॄर्मतः। पालने पूरणे चाथ वरणे वॄर्निगद्यते॥७॥ आहुर्भरण इत्येके भर्त्सने भॄरुदीर्यते। प्राहुस्तं भरणेऽप्येके मॄर्हिंसायां प्रकीर्त्यते॥८॥ दॄः स्याद्विदारणे जॄस्तु वयोहानौ निगद्यते। झॄरित्येके धॄरिति च परे नॄस्स्यान्नयेऽथ कॄः ॥९॥ हिंसायां मॄस्तु गत्यां गॄश्शब्दे ज्या वयसः क्षये। रीस्स्याद्गतौ रेषणे च वृकशब्दोऽत्र रेषणम्॥१०॥ लीश्श्लेषणे व्लीर्वरणे प्लीर्गतौ वृत्कृतिस्त्विह। ल्व

श्रीमद्वाल्मीकिरामायणं तिलकटीकोपेतम् । युद्धकाण्डम्, ००३ सर्गः

तृतीयः सर्गः। श्लोकः सुग्रीवस्य वचः श्रुत्वा हेतुमत्परमार्थवत् । प्रतिजग्राह काकुत्स्थो हनूमन्तमथाब्रवीत् ॥ १ ॥ टीका सुग्रीवस्येति । परमार्थवत्परमार्थभूतम् । स्वार्थे वतिः (वाक्यपदीयम् पदकाण्डम्, वृत्तिसमुद्देशः, 6.584)। श्रुत्वा प्रतिजग्राहाङ्गीचकार । अथ तदङ्गीकारानन्तरम् ॥ १ ॥ श्लोकः तपसा सेतुबन्धेन सागरोच्छोषणेन च । सर्वथापि समर्थोऽस्मि सागरस्यास्य लङ्घने ॥ २ ॥ टीका तपसा तपःकार्यसंकल्पसिद्ध्या, अतएव सकलस्वपुरवर्तिप्राणिनां ब्रह्मलोकनयनं वक्ष्यमाणं संगच्छते । सेतुबन्धनेन गङ्गायां गाङ्गेयेन शरैरिव सागरोच्छोषणेन । दिव्यास्रबलत इति शेषः । सर्वथा सर्वप्रकारस्य लङ्घनोपायस्य विद्यमानत्वादित्याशयः ॥ २ ॥ श्लोकः कति दुर्गाणि दुर्गाया लङ्कायास्तद्ब्रवीष्व मे । ज्ञातुमिच्छामि तत्सर्वं दर्शनादिव वानर ॥ ३ ॥ टीका दुर्गाया गन्तुमशक्यायाः कति दुर्गाणि । जल गिरिवनादिनानाप्रकारदुर्गेषु कतिप्रकाराणि दुर्गाणि सन्तीत्यर्थः । दर्शनादिवापरोक्षानुभवादिव ॥ ३ ॥ श्लोकः बलस्य परिमाणं च द्वारदुर्गक्रियामपि । गुप्तिकर्म च लङ्काया रक्षसां सदनानि च ॥ ४ ॥ टीका परिमाणं संख्यापरिच्छेदम् , द्वारदुर्गक्रियां द्वाराणां

श्रीमद्वाल्मीकिरामायणं तिलकटीकोपेतम् । युद्धकाण्डम्, ००२ सर्गः

द्वितीयः सर्गः । श्लोकः तं तु शोकपरिद्यूनं रामं दशरथात्मजम् । उवाच वचनं श्रीमान्सुग्रीवः शोकनाशनम् ॥ १ ॥ टीका शोकपरिद्यूनं शोकसंतप्तम् ॥१॥ श्लोकः किं त्वया तप्यते वीर यथान्यः प्राकृतस्तथा । मैवं भूस्त्यज संतापं कृतघ्न इव सौहृदम् ॥ २ ॥ टीका प्राकृतो यथा तप्यति तथा त्वया किं तप्यत इत्यन्वयः । एवं संतप्तः कृतघ्नो यथा सोहृदं त्यजति तथा त्वं संतापं त्यज ॥ २ ॥ श्लोकः संतापस्य च ते स्थानं नहि पश्यामि राघव । प्रवृत्तावुपलब्धायां ज्ञाते च निलये रिपोः॥ ३ ॥ टीका स्थानं निमित्तम् । प्रवृत्तौ जीवने ॥ ३ ॥ श्लोकः मतिमाञ्छास्त्रवित्प्राज्ञः पण्डितश्चासि राघव । त्यजेमां प्राकृतां बुद्धिं कृतात्मेवार्थदूषिणीम् ॥ ४ ॥ टीका शास्त्रवित्-नीत्यादिशास्त्रज्ञः । मतिमान्भाव्यर्थज्ञानयोग्यबुद्धिः । प्राज्ञो विचारकुशलः । पण्डितो विचारपूर्वं सिद्धान्तप्रतिष्ठापनसमर्थः । स त्वमिमां प्राकृतां मत्यादिरहितप्राकृतजनोचितां बुद्धिं दीनबुद्धिं त्यज । कृतात्मा योगी यथार्थस्य स्वेष्टस्य योग्यस्य दूषिणीं दूषिकां कामादिविषयां बुद्धिं त्यजति तद्वत्त्वं त्यजेत्यर्थः ॥ ४ ॥ श्लोकः समुद्रं लङ्घयित

Dhātukārikā - Tanādigaṇaḥ

॥ अथ तनादयः॥ विस्तारे स्यात्तनुस्सप्त स्वरितेत इतः क्रमात्। षणुर्दानेऽथ हिंसायां क्षणुस्स्यात्क्षिणुरेव च॥१॥ ऋणुर्गतौ स्याददने तृणुर्दीप्तौ घृणुः स्मृतः। अथ द्वावनुदात्तेतौ वनुर्याचन ईरितः॥२॥ परस्मैपद्यसौ चान्द्रमतेऽथो अवबोधने। मनु डुकृञ् तु करणेऽनिङ्वृद्गणसमाप्तये॥३॥ ॥ इति तनादयः॥

Dhātukārikā - Rudhādigaṇaḥ

॥ अथ   रुधादयः॥ रुधिरावरणे   प्रोक्तः   स्वरितेत   इतो   नव। इरितश्च   भिदिर्तु   स्याद्विदारण   उदाहृतः॥१॥ छिदिर्तु   द्वैधीकरणे   रिचिर्तु   स्याद्विरेचने। विचिर्पृथग्भाव   उक्तः   क्षुदिर्   सम्पेषणे   मतः॥२॥ युजिर्योगेऽनिटः   सप्त   रुधाद्याः   परिकीर्तिताः। उच्छृदिर्देवने   दीप्तावथानादरहिंसयोः॥३॥ उतृदिस्स्यात्कृतीः   प्रोक्तश्छेदने   वेष्टनेऽपि   च। परस्मैपद्ययमथो   ञीदिन्धीर्दीप्तिबोधकः॥४॥ आत्मनेपदिनोऽथ   स्युरित   आरभ्य   तु   त्रयः। खिदो   दैन्ये   विदः   प्रोक्तो   विचारे   ह्यनिटाविमौ॥५॥ परस्मैपदिनोऽथ   स्युर्दश   द्वौ   च   यथाक्रमम्। विशेषणे   शिषॢ   प्रोक्तः   पिषॢ   सञ्चूर्णने   स्मृतः॥६॥ भञ्जो   त्वामर्दने   प्रोक्तः   पालनाभ्यवहारयोः। भुजोऽनिटोऽमी   चत्वारः   शिषाद्याः   परिकीर्तिताः॥७॥ तृहो   हिसिश्च   हिंसायामुन्दी   स्यात्क्लेदनार्थकः। भवेदधाञ्जूर्व्यक्तौ   च   म्रक्षकान्त्योर्गतावपि॥८॥ तञ्चू   सङ्कोचने   प्रोक्त   ओविजीश्चलने   भये। वृजीस्स्याद्वर्जनार्थोऽथ   पृचीस्सम्पर्चनार्थकः॥९॥ रुधादिगणसम्पूर्तिद्योतनायात्र   वृत्कृतिः॥ ॥ इति   रुधादयः॥

Dhātukārikā - Tudādigaṇaḥ

॥अथ तुदादयः॥ तुदस्स्याद्व्यथने प्रोक्तस्स्वरितेतोऽनिटश्च षट्। णुदः प्रेरण आख्यातो दिशस्स्यादतिसर्जने॥१॥ अत्रातिसर्जनं दानं भ्रस्जः पाके प्रकीर्तितः। क्षिपः प्रेरण आख्यातः कृषस्तु स्याद्विलेखने॥२॥ परस्मैपद्यृषीरत्र गत्यर्थः परिकीर्तितः। जुषीः प्रीतौ सेवने च चत्वार इत आदितः॥३॥ आत्मनेपदिनः प्रोक्ता ओविजीश्चलने भये। उत्पूर्वः प्रायशश्चायमोलस्जी रोलजीरपि॥४॥ परस्मैपदिनोऽथ स्युर्दशोत्तरशतन्त्विह। ओव्रश्चूश्छदने प्रोक्तो व्यचो व्याजीकृतौ मतः॥५॥ उछिरुञ्छे विवासार्थ उछीः प्रोक्तोऽथ ऋच्छतिः। गतीन्द्रियप्रलययोर्मूर्तिभावे च कीर्तितः॥६॥ उत्क्लेशे स्यान्मिच्छतिस्तु पीडोत्क्लेश इहेष्यते। जर्जश्चर्चो झर्झतिश्च तर्जने परिभाषणे॥७॥ त्वचस्संवरणे प्रोक्तः स्तुतावृच उदाहृतः। उब्जस्स्यादार्जवे ह्युज्झ उत्सर्गेऽथ विमोहने॥८॥ लुभो विमोहनमिहाकुलीकरणमीरितम्। निन्दा-हिंसा-दान-युद्ध-कत्थनेषु रिफो मतः॥९॥ रिहेत्येके तृपस्तृम्फस्तृप्तौ हि परिकीर्तितौ। आद्यस्स्यात्प्रथमान्तोऽत्र द्वितीयान्तो द्वितीयकः॥१०॥ द्वितीयान्तौ द्वावपीति परेऽथ तुपतुम्पती। तुफस्तुम्फश्च हिंसायामुत्क्लेशे दृप-दृम्फती॥११॥ प्रथमः प्रथमान्तोऽत्र द्वि

Dhātukārikā - Svādigaṇaḥ

॥अथ स्वादयः॥ षुञ्स्यादभिषवे स्नानं स्नपनं पीडनं तथा। इहाभिषवशब्दोक्तं सुरसन्धानमेव च॥१॥ तत्र स्नानेऽकर्मकोऽयं षिञ्तु बन्धन ईरितः। तालव्यादिश्शिञ् निशाने डुमिञ्प्रक्षेपणे स्मृतः॥२॥ चयने चिञ् कथ्यते स्तृञ् प्रोक्त आच्छादनेऽथ कृञ्। हिंसायामनिटस्सप्त सुनोत्याद्याः प्रकीर्तताः॥३॥ वरणे वृञ् कम्पने धुञ् दीर्घान्तो धूञपीष्यते। ह्रस्वान्तोऽयमनिट्कः स्यात्परस्मैपदिनस्ततः॥४॥ भवन्ति नव तत्राद्य उपतापे टुदुस्स्मृतः। हिस्स्याद्गतौ च वृद्धौ च पृ प्रीतौ परिकीर्तितः॥५॥ प्रीतिपालनयोस्स्पृस्स्यात्प्रीतौ च चलनेऽपि च। इत्यन्ये चलनं स्वामी प्राह जीवनमित्यपि॥६॥ स्म्रित्येकेऽन्ये स्पृणोत्यादींस्त्रीनाहुश्छान्दसा इति। आपॢ-व्याप्तौ शकॢ शक्तौ राधसाधौ मताविह॥७॥ संसिद्धौ च दुनोत्याद्या नवापीहानिटो मताः। अथ द्वावनुदात्तेतावशूर्व्याप्तावथ ष्टिघः। आस्कन्दनेऽथागणान्तात्परस्मैपदिनो मताः॥८॥ तिकस्तिगो गतौ च स्याच्चात्स्यादास्कन्दने षघः। हिंसायां ञि धृषा तु स्यात्प्रागल्भ्ये परिकीर्तितः॥९॥ दम्भुर्दम्भन आख्यातो दम्भनं दम्भ उच्यते। ऋधुर्वृद्धौ प्रीणनेऽत्र तृप इत्येक ऊचिरे॥१०॥ छन्दसीत्यत्रागणान्तादधिकारस्समीरितः। अहो व्याप्त

श्रीमद्वाल्मीकिरामायणं तिलकटीकोपेतम् । युद्धकाण्डम्, ००१ सर्गः

श्लोकः श्रुत्वा हनूमतो वाक्यं यथावदभिभाषितम् । रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥ १ ॥ टीका युद्धे रक्षोगणान्हत्वा पुष्पकेण निजां पुरीम् । सीतया सह चागत्य रेजे रामोऽभिषेचितः॥ १ ॥ एवं हनूमतः सकाशात्सीतावृत्तान्तं श्रुत्वा कृतकार्ये भृत्ये स्वामिन उचितां वृत्तिं लोकेभ्य उपदेष्टुं हनुमन्तमस्तौषीदित्याह-श्रुत्वेति । उत्तरं प्रियश्रवणोत्तरकालयोग्यम् ॥ १ ॥ श्लोकः कृतं हनूमता कार्यं सुमहद्भुविदुर्लभम् ।  मनसापि यदन्येन न शक्यं धरणीतले ॥ २ ॥ टीका भुवि दुर्लभं भूलोके दुःखेन लभ्यं यद्वस्तु सीतारूपं तद्विषयं यत्कार्यमन्वेषणरूपं तद्धनूमता कृतं यद्धरणीतलेऽन्येन मनसापि न शक्यम् । कर्तुमिति शेषः । अत एव दुर्लभत्वमुकम् ॥ २ ॥ श्लोकः नहि तं परिपश्यामि यस्तरेत महोदधिम् ।  अन्यत्र गरुडाद्वायोरन्यत्र च हनूमतः ॥ ३ ॥ टीका अन्याशक्यत्वमेवाह -- नहीति ॥ ३ ॥ श्लोकः देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।  अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम् ॥  ४ ॥ टीका देवदानवयक्षाणामिति करणे शेषत्वेन विवक्षिते षष्ठी ॥ ४ ॥ श्लोकः प्रविष्टः सत्त्वमाश्रित्य जीवन्को नाम निष्क्रमेत् ।  को विशेसुदुराधर्षां राक्षसैश्च सुरक

तिलकटीकोपेतं श्रीमद्वाल्मीकिरामायणम् । युद्धकाण्डम्

॥ श्रीः॥ ॥ आदिकविश्रीवाल्मीकिमहामुनिप्रणीतं रामायणम्। तिलकाख्यया व्याख्यया समेतम् ॥ ॥ युद्धकाण्डम् ॥ ॥ प्रथमः सर्गः ॥ http://paryayavak.blogspot.com/2020/07/Ramayana-tilaka-yuddha-001.html

Dhātukārikā - Divādigaṇaḥ

॥ अथ दिवादयः ॥ परस्मैपदिनोऽथ स्युः झॄषन्ताः पञ्चविंशतिः। क्रीडायां विजिगीषायां व्यवहरे द्युतौ स्तुतौ॥१॥ मोदे - मदे - स्वप्नकान्त्योर्गतौ चापि दिवुस्स्मृतः। षिवुस्स्यात्तन्तुसन्ताने गतिशोषणयोस्स्रिवुः॥२॥ ष्ठिवुर्निरसने प्रोक्तः केचिन्नेह पठन्त्यमुम्। ष्णुसुस्स्याददने केचिदादान इति चक्षते॥३॥ अपरेऽदर्शन इति ष्णसुर्निरसने मतः। क्नसुर्ह्वरणदीप्त्योस्स्यात्कौटिल्यं ह्वरणं मतम्॥४॥ व्युषो दाहे प्लुषश्चाथ गात्रविक्षेपणे नृतीः। त्रसीरुद्वेग आख्यातः पूतीभावे कुथो मतः॥५॥ पूतीभावस्तु दौर्गन्ध्यं हिंसायां पुथ ईरितः। परिवष्टेन आख्यातो गुधोऽथ प्रेरणे क्षिपः॥६॥ पुष्पो विकसेन प्रोक्तः स्तिमतीमौ तथा ष्टिमः। ष्टीमश्चार्द्रीभाव उक्ता व्रीडश्चोदनलज्जयोः॥७॥ इषो गतौ षह षुहौ चक्यर्थे समुदाहृतौ। चक्यर्थस्स्तृप्तिरुक्ता जॄष् झॄष् वयोहानिकर्मणि॥८॥ षूङ्भवेत्प्राणिनां गर्भप्रविमोचनकर्मणि। दूङ् भवेत्परितापे दीङ्क्षयेऽनिट्कोऽयमीरितः॥९॥ विहायसा गतौ डीङ्धीङाधारे मीङ् तु हिंसने। हिंसाप्राणवियोगोऽत्र स्रवणे रीङ् प्रकीर्तितः॥१०॥ लीङ्श्लेषणे वृणोत्