श्रीमद्वाल्मीकिरामायणं तिलकटीकोपेतम् । युद्धकाण्डम्, ००१ सर्गः

श्लोकः
श्रुत्वा हनूमतो वाक्यं यथावदभिभाषितम् ।
रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥ १ ॥


टीका
युद्धे रक्षोगणान्हत्वा पुष्पकेण निजां पुरीम् ।
सीतया सह चागत्य रेजे रामोऽभिषेचितः॥ १ ॥

एवं हनूमतः सकाशात्सीतावृत्तान्तं श्रुत्वा कृतकार्ये भृत्ये स्वामिन उचितां वृत्तिं लोकेभ्य उपदेष्टुं हनुमन्तमस्तौषीदित्याह-श्रुत्वेति । उत्तरं प्रियश्रवणोत्तरकालयोग्यम् ॥ १ ॥

श्लोकः
कृतं हनूमता कार्यं सुमहद्भुविदुर्लभम् । 
मनसापि यदन्येन न शक्यं धरणीतले ॥ २ ॥

टीका
भुवि दुर्लभं भूलोके दुःखेन लभ्यं यद्वस्तु सीतारूपं तद्विषयं यत्कार्यमन्वेषणरूपं तद्धनूमता कृतं यद्धरणीतलेऽन्येन मनसापि न शक्यम् । कर्तुमिति शेषः । अत एव दुर्लभत्वमुकम् ॥ २ ॥

श्लोकः
नहि तं परिपश्यामि यस्तरेत महोदधिम् । 
अन्यत्र गरुडाद्वायोरन्यत्र च हनूमतः ॥ ३ ॥

टीका
अन्याशक्यत्वमेवाह -- नहीति ॥ ३ ॥

श्लोकः
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । 
अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम् ॥  ४ ॥

टीका
देवदानवयक्षाणामिति करणे शेषत्वेन विवक्षिते षष्ठी ॥ ४ ॥

श्लोकः
प्रविष्टः सत्त्वमाश्रित्य जीवन्को नाम निष्क्रमेत् । 
को विशेसुदुराधर्षां राक्षसैश्च सुरक्षिताम् ॥ ५ ॥

टीका
तां प्रविष्टो निष्क्रमेत्पुनः स्वदेशमागच्छेत् । प्रवेशोऽपि दुर्लभ इत्याह -- क इति । यो हनूमतः समो न स्यात्स को विशेदित्यन्वयः ॥ ५ ॥ 

श्लोकः
यो वीर्यबलसंपन्नो न समः स्याद्धनूमतः । 
भृत्यकार्यं हनुमता सुग्रीवस्य कृतं महत् । 
एवं विधाय स्वबलं सदृशं विक्रमस्य च ॥ ६ ॥

टीका
विक्रमस्य सदृशं स्वबलं स्वबलकार्यं समुद्रलङ्घनलङ्काप्रवेशरूपं विधाय हनूमता महदुक्तादधिकमपि सुग्रीवस्य भृत्यकार्यं सुप कार्यं सीतादर्शनवनभङ्गादिरूपं कृतम् ॥ ६ ॥

श्लोकः
यो हि भृत्यो नियुक्तः सन्भर्त्रा कर्मणि दुष्करे । 
कुर्यात्तदनुरागेण तमाहुः पुरुषोत्तमम् ॥ ७ ॥

टीका
हनूमतो भृत्योत्तमत्वं दर्शयितुमुत्तमादिभृत्यानां | लक्षणान्याह -- यो हीति । यो भृत्यो भर्त्रा दुष्करे कर्मणि नियुक्तस्तत्कार्यं कृत्वा तदनुरागेणोक्तकार्याविरोधेन कार्यान्तरमपि कुर्यात्तं पुरुषोत्तमं भृत्यपुरुषेषु श्रेष्ठमाहुः ॥ ७ ॥

श्लोकः
यो नियुक्तः परं कार्यं न कुर्यान्नृपतेः  प्रियम् । 
भृत्यो युक्तः समर्थश्च तमाहुर्मध्यमं नरम् ॥ ८ ॥

टीका
यस्तु युक्तो बुद्ध्या समर्थश्च सन्परं स्वामिसंदिष्टादधिकं नृपतेः प्रियं न कुर्यात्किन्तु सन्दिष्टमेव कुर्यात्तं मध्यममाहुः । 'भृत्यस्तु यः परं कार्यं न कुर्यान्नृपतेः प्रियम् । भृत्योभृत्यः समर्थोपि तमाहुर्मध्यमं नरम् ॥' इति पाठे यः समर्थाऽपि भृत्यः परं कार्यं न कुर्यात्स भृत्य उक्तमात्रकरणादधिकाकरणाच्चाभृत्यः, अतस्तं मध्यममाहुः ॥ ८ ॥

श्लोकः
नियुक्तो नृपतेः कार्ये न कुर्याद्यः समाहितः । 
भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम् ॥ ९ ॥

टीका
यो नियुक्तो नृपतेरुक्तमपि कार्यं न कुर्यात्तमधममाहुः ॥ ९ ॥

श्लोकः
तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता । 
न चात्मा लघुतां नीतः सुग्रीवश्चापि तोषितः॥ १० ॥

टीका
अथ हनूमत उत्तमत्वं दर्शयति -- तदिति । नियोगे सीतान्वेषणमात्रे । कृत्यमधिकमपि कृत्यं कृतम् । अत उत्तमभृत्योऽयमिति भावः । उत्तमत्वे युक्त्यन्तरमप्याह -- न चात्मेति । रक्षोभिरपराजितत्वात् । सुग्रीवश्चापि तोषितः । अधिककार्यकरणादित्यर्थः ॥ १० ॥

श्लोकः
अहं च रघुवंशश्च लक्ष्मणश्च महाबलः ।
वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः ॥ ११ ॥

टीका
धर्मतः । धर्मं प्राप्येत्यर्थः । एतेन स्वाम्याज्ञापालनेन भृत्यस्य धर्मोपि सूचितः । मदादयोपि परिरक्षिताः । समाचारलाभेन मन्नाशो मन्नाशाच्च लक्ष्मणभरतादीनां च नाश इति सर्वनाशप्रसङ्ग इति भावः ॥ ११ ॥

श्लोकः
इदं तु मम दीनस्य मनो भूयः प्रकर्षति ।
यदिहास्य प्रियाख्यातुर्न कुर्मि सदृशं प्रियम् ॥ १२ ॥

टीका
एवं हनूमत्कर्मणः सुखजनकत्वेऽपि तत्प्रत्युपकाराकरणजो विषादः सीताश्रवणजमानन्दमपि तिरोधाय मां संतापयतीत्याह -- इदं त्विति न कुर्मि न करोमि । सदृशं एतत्कृतप्रियसदृशं प्रियम् ॥ १२॥


श्लोकः
एष सर्वस्वभूतस्तु परिष्वङ्गो हनूमतः ।
मया कालमिमं प्राप्य दत्तस्तस्य महात्मनः॥ १३ ॥

टीका
तत्तुल्यप्रियान्तरमपश्यन्नात्मपरिष्वङ्गमेव तथापश्यनाह -- एष इति । सर्वस्वभूतः। भगवद्देहस्य शुद्धानन्दरूपत्वात्स्वालिङ्गनस्य सर्वस्वभूतत्वं बोध्यम् । 'आनन्द एव हि भगवतः सर्वस्वम् । आनन्द एव हि मायया रामादिदेहत्वेन भासते' इति गीता भाष्यविष्णुसहस्रनामभाष्ययोर्भगवत्पादैः स्पष्टमेवोक्तम् । ब्रह्माण्डपुराणादिषु चैवं परिष्वङ्गद्वारा ब्रह्मानन्दार्पणमेव हनूमते कृतमिति बोधितम् । तस्य हनुमत उत्तमभृत्यस्य हनूमतः ॥ १३ ॥


श्लोकः
इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तं परिषस्वजे ।
हनूमन्तं कृतात्मानं कृतवाक्यमुपागतम् ॥ १४ ॥

टीका
प्रीतिहृष्टाङ्गः प्रीतिपुलकितगात्रः । हनूमन्तमित्यादिपूर्वान्वयि ॥ १४ ॥


श्लोकः
ध्यात्वा पुनरुवाचेदं वचनं रघुसत्तमः ।
हरीणामीश्वरस्यापि सुग्रीवस्योपशृण्वतः॥ १५ ॥

टीका
ध्यात्वा । समुद्रतरणं कथं स्यादिति संचिन्त्येत्यर्थः । सुप्रीवस्येति सप्तम्यर्थे षष्टी । शृण्वति सत्यु वाचेत्यन्वयः ॥ १५॥


श्लोकः
सर्वथा सुकृतं तावत्सीतायाः परिमार्गणम् ।
सागरं तु समासाद्य पुनर्नष्टं मनो मम ॥ १६ ॥

टीका
सुकृतम् । अधिकस्यापि करणादित्यर्थः । समासाद्य दुस्तरत्वमालोच्य । पुनर्नष्टं सीतावृत्तान्तश्रवणेन हृष्टमपि पुनर्विषादं प्राप्तम् ॥ १६ ॥

श्लोकः
कथं नाम समुद्रस्य दुष्पारस्य महाम्भसः ।
हरयो दक्षिणं पारं गमिष्यन्ति समागताः॥ १७ ॥

टीका
समागता मिलिताः ॥ १७॥


श्लोकः
यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम ।
समुद्रपारगमने हरीणां किमिवोत्तरम् ॥ १८ ॥

टीका
किं चैष वितर्को न ममैव, किं तु सीताया अपीत्याह -- यद्यपीति । यद्यपीत्यप्यर्थे । एष तु वृत्तान्तो मम वैदेह्यायापि गदितः, अतो हरीणां पारगमने किमिवोत्तरम् । उत्तरकालोचितं कर्म किमित्यर्थः ॥ १८ ॥ 

श्लोकः
इत्युक्त्वा शोकसंभ्रान्तो रामः शत्रुनिबर्हणः ।
हनूमन्तं महाबाहुस्ततो ध्यानमुपागमत् ॥ १९ ॥

टीका
शोकसंभ्रान्तः । ज्ञातेऽपि सीतावृत्तान्ते तत्प्राप्तिप्रतिबन्धपर्यालोचनया कलुषितान्तःकरण इत्यर्थः । ध्यानं ध्यानमिव तरणोपायविषयचिन्तामिव ॥१९॥


इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये युद्धकाण्डे प्रथमः सर्गः ॥१॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे प्रथमः सर्गः ॥ १॥ 


Comments

Popular posts from this blog

Does sanAtana dharma (hinduism) "approve" of LGBTQ

Hindu view of food and drink: a critique - Part 2

वन्दे वन्दारुमन्दारमिन्दुभूषणनन्दनम् ।