Dhātukārikā - Divādigaṇaḥ


अथ दिवादयः
परस्मैपदिनोऽथ स्युः झॄषन्ताः पञ्चविंशतिः।
क्रीडायां विजिगीषायां व्यवहरे द्युतौ स्तुतौ॥१॥
मोदे-मदे-स्वप्नकान्त्योर्गतौ चापि दिवुस्स्मृतः।
षिवुस्स्यात्तन्तुसन्ताने गतिशोषणयोस्स्रिवुः॥२॥
ष्ठिवुर्निरसने प्रोक्तः केचिन्नेह पठन्त्यमुम्।
ष्णुसुस्स्याददने केचिदादान इति चक्षते॥३॥
अपरेऽदर्शन इति ष्णसुर्निरसने मतः।
क्नसुर्ह्वरणदीप्त्योस्स्यात्कौटिल्यं ह्वरणं मतम्॥४॥
व्युषो दाहे प्लुषश्चाथ गात्रविक्षेपणे नृतीः।
त्रसीरुद्वेग आख्यातः पूतीभावे कुथो मतः॥५॥
पूतीभावस्तु दौर्गन्ध्यं हिंसायां पुथ ईरितः।
परिवष्टेन आख्यातो गुधोऽथ प्रेरणे क्षिपः॥६॥
पुष्पो विकसेन प्रोक्तः स्तिमतीमौ तथा ष्टिमः।
ष्टीमश्चार्द्रीभाव उक्ता व्रीडश्चोदनलज्जयोः॥७॥
इषो गतौ षह षुहौ चक्यर्थे समुदाहृतौ।
चक्यर्थस्स्तृप्तिरुक्ता जॄष् झॄष् वयोहानिकर्मणि॥८॥
षूङ्भवेत्प्राणिनां गर्भप्रविमोचनकर्मणि।
दूङ् भवेत्परितापे दीङ्क्षयेऽनिट्कोऽयमीरितः॥९॥
विहायसा गतौ डीङ्धीङाधारे मीङ् तु हिंसने।
हिंसाप्राणवियोगोऽत्र स्रवणे रीङ् प्रकीर्तितः॥१०॥
लीङ्श्लेषणे वृणोत्यर्थे व्रीङ्स्यात्स्वादय ओदितः
पीङ् पाने माङ्तु माने स्यादीङ्गतौ प्रीङ् सकर्मकः।
प्रीतौ स्यादथ चत्वारः परस्मैपदिनः स्मृताः॥११॥
शो तनूकरणे छो तु छेदने षोऽन्तकर्मणि।
दोऽवखण्डन आख्यातो धीङाद्या अनिटस्स्मृताः॥१२॥
अथ पञ्चदशोच्यन्त आत्मनेपदिनः क्रमात्।
प्रादुर्भावे जनीर्दीपीर्दीप्तावाप्यायने त्विह॥१३॥
पूरीरथ भवेत्तूरीर्गति त्वरणाहिंसयोः।
धूरीर्गूरीश्च हिंसायां गत्यां परिकीर्तितौ॥१४॥
घूरी-र्जूरीश्च हिंसायां वयोहान्यां कीर्तितौ।
हिंसास्तम्भनयोश्शूरीश्चूरीर्दाहे प्रकीर्तितः॥१५॥
तप ऐश्वर्य इति वा चरमं सूत्रमिष्यते।
ऐश्वर्येऽयं तङ्श्यनौ वा भजतीत्यर्थकं स्मृतम्॥१६॥
परस्मैपद्यन्यथा शब्गर्भ इत्यर्थबोधकम्।
इच्छन्ति केचिद्वा शब्दमत्राद्यावयवं वृतोः।
अतो वा वृत्यमाना सा रामशालां न्यविक्षत॥१७॥
इति भट्टिप्रयोगस्तु तन्मूल इति चक्षते।
पाठान्तरम् पतेत्येवं व्यत्यासेन प्रकीर्तितम्।
वृतुर्वरण आख्यात उपतापे क्लिशस्स्मृतः।
काशृ दीप्तौ वाशृ शब्दे स्वरितेतोऽथ पञ्च च॥१८॥
तितिक्षायां मृषः प्रोक्त ईशुचिर् तु प्रकीर्त्यते।
पूतीभावे तु क्लेदो बन्धने णह इष्यते॥१९॥
रञ्जो राग अथाक्रोशे शपोऽनिट्का णहादयः।
त्रयोऽप्येकादशाथ स्युरनुदात्तानुबन्धकाः॥२०॥
गतौ पदः खिदो दैन्ये सत्तायां विद इष्यते।
स्याद्बुधोऽवगमे सम्प्रहारे युध उदाहृतः॥२१॥
अनौ रुधः काम उक्तः पदाद्या अनिटोऽत्र षट्
अणस्तु प्राणने दन्त्यान्तोऽयमित्येक ऊचिरे॥२२॥
मनो ज्ञाने समाधौ स्याद्युजश्चित्तनिरोधनम्।
समाधिरुच्यते तस्मादकर्मक उदाहृतः॥२३॥
सृजो विसर्गेऽकर्मायं लिशोऽल्पीभाव इष्यते।
मनादयोऽनिटोऽथस्युरागणान्ताद्यताक्रमम्॥२४॥
परस्मैपदिनो वृद्धावेव राधो ह्यकर्मकात्।
इत्यस्य गणसूत्रस्य त्वर्थ एवं स्मृतो बुधैः॥२५॥
भिन्नक्रमोऽत्रैव शब्दोऽकर्मकादेव राध्यतेः।
श्यन् स्यादिति ततो वृद्धावित्युदाहरणं ह्यतः॥२६॥
दूये सात्वती सूनुर्यन्मह्यमपराध्यति।
इत्यत्र राध्यतीत्यस्य द्रुह्यतीत्यर्थ इष्यते॥२७॥
क्रियासमभिहारेण विराध्यन्तं क्षमेत कः।
इत्यत्रार्थस्तु द्रुह्यन्तमि त्यूह्यो हि मनीषिभिः॥२८॥
राध्यत्योदन इत्यत्र सिध्यतीत्यर्थ इष्यते।
कृष्णाय राध्यतीत्यत्र दैवं चिन्तयतीति च॥२९॥
इह दैवस्य धात्वर्थ एवान्तर्भावितत्वतः
अकर्मकत्वं विज्ञेयं जीवत्यादिवदस्य हि
अयं स्वादौ चुरादौ पठ्यते हि गणद्वये।
व्यधस्स्यात्ताडने षुष्टौ पुषस्स्याच्छोषणे शुषः॥३०॥
तुषः प्रीतौ दुषः प्रोक्तो वैकृत्येऽथ श्लिषो भवेत्।
आलिङ्गनेऽत्र राधाद्या धातवस्सप्त चाऽनिटः॥३१॥
शको विभाषित इह मर्षणे समुदाहृतः।
अत्रोभयपदीत्यर्थो विभाषितपदस्य हि॥३२॥
ष्विदा गात्रप्रक्षरणे तत्तु घर्मसृतिस्स्मृता।
न्यासकारादयोऽयं हि ञीद् भवेदिति चक्षते॥३३॥
हरदत्तादयो नेति क्रुधः क्रोधे प्रकीर्तितः।
बुभुक्षायां क्षुधश्शौचे शुधस्संराद्धिकर्मणि॥३४॥
षिधुरुदित्त्व पाठोऽस्य प्रामादिक उदाहृतः।
शकादयोऽनिटष्षट्स्स्युस्सेट्कमाहुश्शकं परे॥३५॥
संराद्धौ चैव हिंसायां रधस्संराद्धिरत्र तु।
निष्पत्तिरुक्ताऽथ णशोऽदर्शने प्रीणने तृपः॥३६॥
तर्पणं तृप्तिरप्यत्र प्रीणनं परिकीर्तितम्।
हर्षमोहनयोः प्रोक्तो दृपो गर्वोऽत्र मोहनम्॥३७॥
जिघांसायां द्रुहः प्रोक्तो मूहो वैचित्त्य ईरितः।
वैचित्त्यमविवेकोऽत्र ष्णुह उद्गिरणे स्मृतः॥३८॥
ष्णिहः प्रीतौ रधादीनां समाप्तिद्योतकोऽत्र वृत्।
शमुस्तूपशमे प्रोक्तः काङ्क्षायां तमुरीरितः॥३९॥
दमुस्तूपशमेऽत्रोपशमो ण्यन्तः प्रकीर्तितः।
तस्मात्सकर्मकोऽयं नाकर्मकश्शमवत्स्मृतः॥४०॥
श्रमुस्तपसि खेदे चानवस्थाने भ्रमुर्मतः।
क्षमूस्सहन उक्तोऽथ क्लमुर्ग्लानौ प्रकीर्तितः॥४१॥
मदीहर्षे क्षेपणेऽसुः प्रयत्ने यसुरीरितः।
जसुस्स्यान्मोक्षण उपक्षये तसुरुदाहृतः॥४२॥
दसुश्चाथ वसु स्तम्भे बशाद्योऽयमितीतरे।
व्युषो विभागे प्राग्दाहे पठितोऽप्यर्थभेदतः॥४३॥
अङर्थं पठ्यते भूय ओष्ठ्याद्यो दन्त्यपश्चिमः॥४४॥
व्युसेत्यन्येऽयकारोऽयं बुसित्यपर ऊचिरे।
प्लुषो दाहे प्रेरणे स्याद्बिस संश्लेषणे कुसः॥४५॥
उत्सर्गे तु बुसः प्रोक्तः खण्डने मुस ईरितः।
परिणामे मसीः प्रोक्तः परिणामस्तु विक्रिया॥४६॥
केचित्समीरिति प्राहुर्लुट उक्तो विलोडने।
समवाय उचः प्रोक्तो भृशुर्भ्रंशुरुभावपि॥४७॥
अधःपतन आख्यातौ वृशस्स्याद्वरणे कृशः।
तनूकरण उक्तो ञीत्पिपासायां तृषस्स्मृतः॥४८॥
हृषस्तुष्टौ रुषरिषौ हिंसायां परिकीर्तितौ।
डिपः क्षेपे कुपः क्रोधे व्याकुलत्वे गुपस्स्मृतः॥४९॥
युपू रुपुर्लुपुश्चैव विमोहन उदीरिताः।
लुभो गार्ध्ये गर्ध्यमत्र ह्याकाङ्क्षा परिकीर्तिता॥५०॥
क्षुभस्सञ्चलने प्रोक्तो हिंसायां णभतुभ्यती।
आर्द्रीभावे क्लिदूः प्रोक्तो ञिमिदा स्नेहेन मतः॥५१॥
स्नेहेने मोचने चापि ञिक्ष्विदाः परिकीर्तितः।
ऋधुर्वृद्धौ गृधुरभिकांक्षायां वृत्कृतिस्त्विह॥५२॥
पुषादेश्च दिवादेश्च समाप्तिद्योतनी मता।
पुषादिपरिपूर्त्यर्थमेव वृत्कृरणं स्मृतम्॥५३॥
दिवादिराकृतिगणो भ्वादिवत्तेन मृग्यति
तथा क्षीयत इत्यादि सिध्यतीत्यपरे जगुः॥५४॥
इति दिवादयः॥

Comments

Popular posts from this blog

Does sanAtana dharma (hinduism) "approve" of LGBTQ

why pitru shrAddha, bali, tarpaNa is recommended for grihastas in sanAtana dharma - English Translation

Kṛṣṇakarṇāmṛtam, with the Suvarṇacaśaka Ṭīkā of Pāpayallayya Sūri - 1