श्रीमद्वाल्मीकिरामायणं तिलकटीकोपेतम् । युद्धकाण्डम्, ००३ सर्गः
तृतीयः सर्गः।
श्लोकः
सुग्रीवस्य वचः श्रुत्वा हेतुमत्परमार्थवत् ।
प्रतिजग्राह काकुत्स्थो हनूमन्तमथाब्रवीत् ॥ १ ॥
टीका
सुग्रीवस्येति । परमार्थवत्परमार्थभूतम् । स्वार्थे वतिः (वाक्यपदीयम् पदकाण्डम्, वृत्तिसमुद्देशः, 6.584)। श्रुत्वा प्रतिजग्राहाङ्गीचकार । अथ तदङ्गीकारानन्तरम् ॥ १ ॥
श्लोकः
तपसा सेतुबन्धेन सागरोच्छोषणेन च ।
सर्वथापि समर्थोऽस्मि सागरस्यास्य लङ्घने ॥ २ ॥
टीका
तपसा तपःकार्यसंकल्पसिद्ध्या, अतएव सकलस्वपुरवर्तिप्राणिनां ब्रह्मलोकनयनं वक्ष्यमाणं संगच्छते । सेतुबन्धनेन गङ्गायां गाङ्गेयेन शरैरिव सागरोच्छोषणेन । दिव्यास्रबलत इति शेषः । सर्वथा सर्वप्रकारस्य लङ्घनोपायस्य विद्यमानत्वादित्याशयः ॥ २ ॥
श्लोकः
कति दुर्गाणि दुर्गाया लङ्कायास्तद्ब्रवीष्व मे ।
ज्ञातुमिच्छामि तत्सर्वं दर्शनादिव वानर ॥ ३ ॥
टीका
दुर्गाया गन्तुमशक्यायाः कति दुर्गाणि । जल गिरिवनादिनानाप्रकारदुर्गेषु कतिप्रकाराणि दुर्गाणि सन्तीत्यर्थः । दर्शनादिवापरोक्षानुभवादिव ॥ ३ ॥
श्लोकः
बलस्य परिमाणं च द्वारदुर्गक्रियामपि ।
गुप्तिकर्म च लङ्काया रक्षसां सदनानि च ॥ ४ ॥
टीका
परिमाणं संख्यापरिच्छेदम् , द्वारदुर्गक्रियां द्वाराणां दुष्प्रवेशत्वसंपादनम्, गुप्तिकर्म प्राकारादिषु यन्त्रादिस्थापनरूपम् । 'गुप्तिक्रमम्' इति पाठे प्राकारादिभी रक्षाक्रममित्यर्थः ॥ ४॥
श्लोकः
यथासुखं यथावच्च लङ्कायामसि दृष्टवान् ।
सर्वमाचक्ष्व तत्त्वेन सर्वथा कुशलो ह्यसि ॥ ५ ॥
टीका
यथासुखं यथावद्दृष्टवानसि तत्सर्वं तत्त्वेनाचक्ष्व । सर्वथा कुशलो ह्यसि । यथावजजद्दृष्टप्रतिपादने इति शेषः ॥ ५ ॥
श्लोकः
श्रुत्वा रामस्य वचनं हनूमान्मारुतात्मजः ।
वाक्यं वाक्यविदां श्रेष्ठो रामं पुनरथाब्रवीत् ॥ ६ ॥
टीका
श्रुत्वाथाब्रवीदिस्यन्वयः ॥ ६ ॥
श्लोकः
श्रूयतां सर्वमाख्यास्ये दुर्गकर्म विधानतः ।
गुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः॥ ७ ॥
टीका
दुर्गकर्मविधानतो दुर्गत्वसंपादककर्मविधानेन यथा गुप्ता, बलैर्यथा रक्षिता च तथाख्यास्ये ॥ ७ ॥
श्लोकः
राक्षसाश्च यथा स्निग्धा रावणस्य च तेजसा ।
परां समृद्धिं लङ्कायाः सागरस्य च भीमताम् ॥ ८ ॥
टीका
रावणस्य तेजसा संपादितां परां समृद्धिमाख्यास्ये इत्येवं क्रमेणान्वयः ॥८॥
श्लोकौ
विभागं च बलौघस्य निर्देशं वाहनस्य च ।
एवमुक्त्वा कपिश्रेष्ठः कथयामास तत्त्ववित् ॥ ९ ॥
हृष्टप्रमुदिता लङ्का मत्तद्विपसमाकुला ।
महती रथसंपूर्णा रक्षोगणनिषेविता ॥ १० ॥
टीके
बलौघस्य पादातसहस्य, वाहनस्य गजाश्वरथलक्षणस्य, निर्देशं संख्यापरिच्छेदम् ॥ ९ ॥ १० ॥
श्लोकः
दृढबद्धकपाटानि महापरिघवन्ति च ।
चत्वारि विपुलान्यस्या द्वाराणि सुमहान्ति च ॥ ११ ॥
टीका
परिघवन्यर्गलवन्ति । 'परिधो योगभेदे स्यान्मुद्गरेर्गलघातयोः' इति विश्वः । इदृशानि द्वाराणि सन्तीत्यन्वयः ॥११॥
श्लोकः
तत्रषूपलयन्त्राणि बलवन्ति महान्ति च ।
आगतं प्रतिसैन्यं तैस्तत्र प्रतिनिवार्यते ॥ १२ ॥
टीका
तत्र तेषु द्वारेषु । इषवश्चोपलाश्च तत्प्रक्षेपकयन्त्राणि । तैर्द्वारैरागतं परसेन्य तत्र तेषु द्वारेषु प्रतिनिवार्यते ॥ १२ ॥
श्लोकः
द्वारेषु संस्कृता भीमाः कालायसमयाः शिताः ।
शतशो रचिता वीरैः शतघ्न्यो रक्षसां गणैः ॥ १३ ॥
टीका
उक्तयन्त्रैः संस्कृताः सज्जाः, कालायसमया अयःसारमयाः । शतमेकप्रयोगेण घ्नन्तीति शतघ्न्यश्चतुर्हस्तप्रमाणलोहकण्टकयुत्ता मुद्गरविशेषाः । शतघ्न्यः । 'शतन्त्री च चतुर्हस्ता लोहकण्टकिनी गदा' इति वेजयन्ती ॥ १३ ॥
श्लोकः
सौवर्णस्तु महांस्तस्याः प्राकारो दुष्प्रधर्षणः । मणिविद्रुमवैदूर्यमुक्ताविरचितान्तरः॥ १४ ॥
टीका
प्राकारो रत्नखचित इत्याह -- मणीति ॥ १४ ॥
श्लोकः
सर्वतश्च महाभीमाः शीततोया महाशुभाः।
अगाधा ग्राहवत्यश्च परिखा मीनसेविताः॥ १५ ॥
टीका
परिखाः पुरोपान्तखाताः ॥१५॥
श्लोकः
द्वारेषु तासां चत्वारः संक्रमाः परमायताः ।
यन्त्रैरुपेता बहुभिर्महद्भिर्गृहपङ्क्तिभिः ॥ १६ ॥
टीका
द्वारेषु चतुर्षु तासां परिखाणां मध्ये । संक्रमा मश्वरूपेण बद्धाः । परमायता अतिविस्तृतमार्गाः । गृहपङ्क्तिभिः प्राकार शिरोगृहपङ्क्तिभिः । उपेता इत्यनुकर्षः ॥ १६ ॥
श्लोकः
त्रायन्ते संक्रमास्तत्र परसैन्यागते सति ।
यन्त्रैस्तैरवकीर्यन्ते परिखासु समन्ततः॥ १७ ॥
टीका
तत्र तेषु संक्रमेषु परसैन्यागते सति ते संक्रमास्तैः यन्त्रैः प्राकारोपरि प्रतिष्ठापितैर्यन्त्रैस्त्रायन्ते रक्ष्यन्ते । 'ह्रियन्ते' इति पाठे ते संक्रमा नाश्यन्त इत्यर्थः । तैर्यन्त्रैस्तासु परिखासु तत्समीपं प्राप्तानि परसैन्यानि समन्ततोऽवकीर्यन्ते क्षिप्यन्ते ॥ १७ ॥
श्लोकः
एकस्त्वकम्प्यो बलवान्संक्रमः सुमहादृढः ।
काञ्चनैर्बहुभिः स्तम्भैर्वेदिकाभिश्च शोभितः॥ १८ ॥
टीका
एको मुख्यः संक्रमः प्राकारमध्यवर्ती साक्षात्पुरप्रवेशसाधनभूतोऽकम्प्यो दुर्भेदः । तत्र हेतु: -- बलवान्बहुबलकृतरक्षः । दृढो दृढप्रतिष्ठानः । तदेव दर्शयति-काञ्चनैरिति ॥ १८ ॥
श्लोकः
स्वयं प्रकृतिमापन्नो युयुत्सू राम रावणः ।
उत्थितश्चाप्रमत्तश्च बलानामनुदर्शने ॥ १९ ॥
टीका
एवं पुरस्वरूपमुक्त्वा पुरपतेः स्वरूपमाह -- स्वयमिति । युयुत्सुरपि प्रकृतिमापन्नोऽक्षुब्धान्तःकरणः । अतिधीर इति यावत् । बलानामनुदर्शन उत्थित उद्युक्तः । अप्रमत्तः सावधानश्च ॥ १९ ॥
श्लोकः
लङ्का पुनर्निरालम्बा देवदुर्गा भयावहा ।
नादेयं पार्वतं चान्यं कृत्रिमं च चतुर्विधम् ॥ २० ॥
टीका
निरालम्बातिश्लक्ष्णमहोच्चगिरिशिखरप्रतिष्ठितत्वेनारोहणालम्बनरहिता । देवदुर्गा देवनिर्मितदुर्गरूपिणी, अतएव भयावहा । नादेयं दुर्गम् । तत्पर्वतसंभूतनद्या चतुर्दिक्ष्वावरणात् । पार्वतं त्रिकूटरूपम् । कृत्रिमं प्राकाररूपं चतुष्प्राकारवत्वेन प्राकाररूपम् । चतुर्विधं दुर्गमस्तीति शेषः ॥ २०॥
श्लोकाः
स्थिता पारे समुद्रस्य दूरपारस्य राघव ।
नौपथश्चापि नास्त्यत्र निरुद्देशश्च सर्वशः॥ २१ ॥
शैलाग्रे रचिता दुर्गा सा पूर्देवपुरोपमा ।
वाजिवारणसंपूर्णा लङ्का परमदुर्जया ॥ २२ ॥
परिखाश्च शतघ्न्यश्च यन्त्राणि विविधानि च ।
शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः ॥ २३ ॥
टीकाः
तत्रान्यप्याह -- स्थितेति । दूरपारस्य दूरे पारं परतीरं यस्य नौपथो नौमार्गः । अत्र समुद्रे । सर्वशो निरुद्देशः प्रदेशविभागरहितः । समुद्र इति शेषः । 'निरादेशः' इति पाठे निरादेशः सर्वदिक्संचाररहितप्रदेशः ॥ २१॥ २२ ॥ २३ ॥
श्लोकः
अयुतं रक्षसामत्र पूर्वद्वारसमाश्रितम् ।
शूलहस्ता दुराधर्षाः सर्वे खड्गाग्रयोधिनः॥ २४ ॥
टीका
शूलहस्ता एव न केवलम् , अपि तु खड्गाग्रयोधिनः खड्गैरग्रे युध्यन्ते तादृशाः ॥ २४ ॥
श्लोकः
नियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम् ।
चतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः॥ २५ ॥
टीका
नियुतं लक्षम् । चतुरङ्गेण सैन्येनोपलक्षिता योधास्तत्रापि दक्षिणद्वारेऽपि सन्ति । अनुत्तमाः प्रशस्ताः ॥ २५ ॥
श्लोकः
प्रयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम् ।
चर्मखड्गधराः सर्वे तथा सर्वास्त्रकोविदाः॥ २६ ॥
टीका
प्रयुतं दशलक्षम् ॥ २६ ॥
श्लोकः
न्यर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम् ।
रथिनश्चाश्ववाहाश्च कुलपुत्राः सुपूजिताः॥ २७ ॥
टीका
कुलपुत्राः किंकराः । यद्वा योद्धृसत्कुले प्रसूताः ॥ २७ ॥
श्लोकः
शतशोऽथ सहस्राणि मध्यमं स्कन्धमाश्रिताः ।
यातुधाना दुराधर्षाः साग्रकोटिश्च रक्षसाम् ॥ २८ ॥
टीका
मध्यमं स्कन्धं पुरमध्यसेनातिवेशस्थानम् । साग्रा कोटिः सपादकोटिः ॥ २८ ॥
श्लोकः
ते मया संक्रमा भग्नाः परिखाश्चावपूरिताः ।
दग्धा च नगरी लङ्का प्राकाराश्चावसादिताः॥ २९ ॥
टीका
यद्येवंदुर्गा लङ्का कथमस्मद्बलसाध्येति शङ्कां निराचष्टे -- ते मयेति । ते संक्रमाः परिखामार्गा मया भग्नाः । परिखाश्चावपूरिताः । शिलेष्टकादिभिरिति शेषः । चेन बलैकदेशक्षयोऽपि कृत इत्यर्थः ॥ २९ ॥
श्लोकः
येन केन तु मार्गेण तराम वरुणालयम् ।
हतेति नगरी लङ्का वानरैरुपधार्यताम् ॥ ३० ॥
टीका
येन केन स्वाम्युक्तेष्वन्यतमेन समुद्रं तराम । तत्रैवं सति वानरैः स्वयमेव लङ्का हतेत्युपधार्यतां निश्चीयताम् ॥ ३० ॥
श्लोकौ
अङ्गदो द्विविदो मैन्दो जाम्बवान्पनसो नलः ।
नीलः सेनापतिश्चैव बलशेषेण किं तव ॥ ३१ ॥
प्लवमाना हि गत्वा तां रावणस्य महापुरीम् ।
सपर्वतवनां भित्त्वा सखातां च सतोरणाम् ।
सप्राकारां सभवनामानयिष्यन्ति राघव ॥ ३२ ॥
टीका
किञ्चाशेषतरणोपायचिन्ता व्यर्थैव । प्रबलैर्वक्ष्यमाणैरेव कार्यसिद्धिरित्याह-अङ्गद इत्यादि । एतेङ्गदादय एव लङ्कां भित्त्वा सीतामानेष्यन्ति, किं बलशेषेण तवेत्यन्वयः ॥ ३१ ॥ ३२ ॥
श्लोकः
एवमाज्ञापय क्षिप्रं बलानां सर्वसंग्रहम् ।
मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय ॥ ३३ ॥
टीका
एवमिति । एवं प्रधानैरेव कार्यसाधनामिष्टं चेत्क्षिप्रमिदानीमेवानयतेत्याज्ञापय । यदि बलानां सर्वसंग्रहं बलसंमेलनमुद्दिश्य बलानामपि पारनयनमिष्टं तदा युक्तेन यात्रोचितेन मुहूर्ते प्रस्थानं स्वयात्रामभिरोचय ॥ ३३ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये युद्धकाण्डे तृतीयः सर्गः ॥३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे तृतीयः सर्गः ॥ ३ ॥
Comments