Dhātukārikā - Tanādigaṇaḥ

अथ तनादयः॥
विस्तारे स्यात्तनुस्सप्त स्वरितेत इतः क्रमात्।
षणुर्दानेऽथ हिंसायां क्षणुस्स्यात्क्षिणुरेव च॥१॥
ऋणुर्गतौ स्याददने तृणुर्दीप्तौ घृणुः स्मृतः।
अथ द्वावनुदात्तेतौ वनुर्याचन ईरितः॥२॥
परस्मैपद्यसौ चान्द्रमतेऽथो अवबोधने।
मनु डुकृञ् तु करणेऽनिङ्वृद्गणसमाप्तये॥३॥

इति तनादयः॥

Comments

Popular posts from this blog

Does sanAtana dharma (hinduism) "approve" of LGBTQ

Hindu view of food and drink: a critique - Part 2

वन्दे वन्दारुमन्दारमिन्दुभूषणनन्दनम् ।