Dhātukārikā - Kaṇḍvādigaṇaḥ
॥ अथ कण्ड्वादयः ॥
कण्डूञ् गात्रविघर्षे स्यान्मन्तुराग(सि) प्रकीर्तितः।
एके रोष इति प्राहुः चन्द्र आह ञिदित्यमुम्॥१॥
पूजामाधुर्ययोर्वल्गुरुपतापेऽसुरीरितः।
अस्वसूञिति चैकेऽथ लेट् लोटौ स्वप्नधौर्त्ययोः॥२॥
पूर्वभावे चाथ दीप्तावित्येके प्रवदन्ति हि।
लेला दीप्तावथेर्ष्यायामिरस् चेरजिरञ् तथा॥३॥
उषस् प्रभातभावे स्याद्वेदस्स्यात्स्वप्नधौर्त्ययोः।
आशुग्रहणवाची स्यान्मेधाः क्षेपे कुषुभ्यतिः॥४॥
नीचः स्याद्दास्य इत्यन्ये मगधः परिवेष्टने।
तन्तस् पम्पसिमौ दुःखे तत्क्रियायां तु कीर्तितौ॥५॥
सुखदुःखावथ बुधैः पूजायां स परो मतः।
आरायाः कर्मणि भवेदररोऽथ चिकित्सने॥६॥
भिषक्स्यादथ भिष्णज् तूपसेवायां प्रकीर्तितः।
इषुधस्स्याच्छरधृतौ चरणो वरणो गतौ॥७॥
चुरणश्चौर्य आख्यातस्त्वरायां तुरणस्स्मृतः।
धारणे पोषणे च स्याद्भुरणो गद्गदस्तु सः॥८॥
वाक्स्खालित्येऽथ स्युरेला केला खेला विलासने।
इल इत्यपरे प्राहुः लेखा स्यात्स्खलनेऽपि च॥९॥
अदन्तोऽयमिति त्वन्ये ह्यल्पकुत्सनयोर्लिटः।
लाटो जीवन आख्यातो लज्जारोषणयोर्हृणीङ्॥१०॥
पूजायां स्यान्महीङ् रेखा श्लाघायां साधनेऽपि च।
परितापे चापि परिचरणे च द्रवस्स्मृतः॥११॥
तिरत्स्वन्तर्धिवाची स्यान्नीरोगत्वेऽगदो मतः।
उरस्तु स्याद्बलार्थोऽथ गतौ तरण ईरितः॥१२॥
पयस्प्रसृतिवाची स्यात्सम्भूय सथ चेष्यते।
प्रभूतत्वे सम्भरणे संबरोऽम्बर एव च॥१३॥
कण्ड्वादिराकृतिगणः पञ्चाशदुपलक्षणः।
तेन स्यात्समरो युद्धे लाटो ग्रहण ईरितः॥१४॥
मर्यादायां भवेद्वेला नमस्पूजार्थको मृगः।
अन्वेषणे जनस्तु स्यात्परितापार्थकस्तथा॥१५॥
परिचर्यार्थकश्चापीत्यादीनामुपसङ्ग्रहः।
अञिन्ङितोऽत्र सर्वेऽपि परस्मैपदिनो मताः॥१६॥
॥ इति कण्ड्वादयः ॥
Comments