Dhātukārikā - Curādigaṇaḥ

॥ अथ चुरादयः ॥

चुरस्स्तेये चितिस्स्मृत्यां यत्रिस्सङ्कोचने मतः।
स्फुडिस्स्यात्परिहासेऽत्र पाठान्तरमिति स्फुटिः॥१॥

दर्शनाङ्कनयोर्लक्षः कुद्रिस्त्वनृतभाषणे।
कुडीत्येके प्राहुरथोपसेवायां लडः स्मृतः॥२॥

मिदिर्भवेत्स्नेहनेऽथो लडिरुत्क्षेपणे मतः।
इदत्रौकार इत्येक उकारादिरितीतरे॥३॥

जलोपवारणे प्रोक्तो लज इत्येक ऊचिरे।
पीडोऽवगाहने प्रोक्तो नटोऽवस्कन्दने मतः॥४॥

नाट्यं त्ववस्कन्दनं स्यात्प्रयत्ने श्रथ ईरितः।
एके प्रस्थान इत्याहुर्बधस्संयमने मतः॥५॥

बन्धेति प्राह चन्द्रः पॄः पूरणेथोऽर्ज उच्यते।
बलप्राणनयोः पक्षः परिग्रह उदीरितः॥६॥

वर्णश्चूर्णः प्रेरणेऽन्ये वर्णो वर्णन इत्यपि।
उक्तः प्रथस्तु प्रख्याने पृथः प्रक्षेप ईरितः॥७॥

प्राहुरेके पथ इति सम्बन्धे षम्ब ईर्यते।
शम्बश्च साम्ब इत्येके भक्षस्त्वदन इष्यते॥८॥

चेदने भर्त्सने कुटृ एके पूरण इत्यपि।
अल्पीभावे पुटृ चुट्टावटृ-षुट्टावनादरे॥९॥

लुण्टस्स्त्येये श्वठ शठावसंस्कारे गतावपि।
श्वठीत्येके तुजिपिजी हिंसादानबलेष्वथ॥१०॥

निकेतने चाथ तुजः पिज इत्यपरे जगुः।
एके प्राहुर्लजिलुजी इति गत्यां पिसः स्मृतः॥११॥

षान्त्वस्सामप्रयोगेऽथ परिभाषण ईरितौ।
श्वल्कवल्कौ स्नेहने स्यात्-ष्णिहस्स्फिट इतीतरे॥१२॥

अनादरे स्मिटः स्यात् ष्मिङ्ङनादर इतीतरे।
श्लिषस्स्याच्छ्लेषणे गत्यां पथिः पिच्छस्तु कुट्टने॥१३॥

छदिस्संवरणे दाने श्रणः प्रायो विपूर्वकः।
आघाते तड उक्तोऽथ खडः खडिकडी त्रयः॥१४॥

भेदने रक्षणेऽथ स्यात्कुडिस्स्याद्वेष्टने गुडिः।
इमं रक्षण इत्येके कुठिरित्यपरे जगुः॥१५॥

गुडिरित्यपि केचित्तु खुडिः खण्डन ईरितः।
वडिर्विभाजने प्रोक्तो वठिरित्येक ऊचिरे॥१६॥

चण्डे चडि कपी हर्षे भूषायां च मडिः स्मृतः।
कल्याणे भडिराख्यातो वमने छर्द ईरितः॥१७॥

आदरानादरार्थौ हि पुस्तबुस्तौ प्रकीर्तितौ।
चुदः संचोदने प्रोक्तो णक्क-धक्कौ तु नाशने॥१८॥

व्यथने चुक्क-चक्कौ स्तः क्षलः स्याच्छौचकर्मणि।
प्रतिष्ठायां तलः प्रोक्त उन्माने तुल ईरितः॥१९॥

उत्क्षेपणे दुलः प्रोक्तो महत्त्वे पुल उच्यते।
चुलः समुच्छ्राय उक्तो रोहणे मूल ईरितः॥२०॥

कलो विक्षेप उदितो भेदने बिल ईर्यते।
स्नेहने तिल आख्यातो भृतौ चल उदीरितः॥२१॥

पालः स्याद्रक्षणे लूषो हिंसायां मान इष्यते।
शुल्बः शूर्पश्चाथ चुटश्छेदने समुदीरितः॥२२॥

मुटः सञ्चूर्णने प्रोक्तो नाशने पडिरुच्यते।
पसिश्चाथ व्रज मार्गसंस्कारे च गतावपि॥२३॥

शुल्कोऽतिस्पर्शने प्रोक्तश्चपिर्गत्यां प्रकीर्ततः।
क्षपिः क्षान्त्यां क्षजिः कृच्छ्रजीवने समुदाहृतः॥२४॥

गत्यां श्वर्तश्च श्वभ्रश्च सूत्रं स्याज्ज्ञपमिच्च हि॥
अयं ज्ञाने ज्ञापने च वर्तते ह्रस्वभाङ्णिचि॥२५॥

परिवेषण आख्यातो यमश्च परिवेषणम्।
इह प्रोक्तं वेष्टनं न भोजना नापि वेष्टना॥२६॥

परिकल्कन आख्यातश्चहश्चप इतीतरे।
स्याद्रहस्स्त्याग इत्येके बलस्तु प्राणने मतः॥२७॥

चिञ् स्यात्तु चयने नान्ये मितोऽहेताविदं गणे।
सूत्रं घट्टस्तु चलने मुस्तस्सङ्घात इष्यते॥२८॥

खट्टस्संवरणे षट्टः स्फिट्टश्चुबिरितित्रयः।
हिंसायामथ सङ्घाते पूलः पूर्ण इतीतरे॥२९॥

अन्ये पुण इति प्राहुः पुंसस्स्यादभिवर्धने।
बन्धने स्याट्टकिः कान्तिकरणे धूस इष्यते॥३०॥

दन्त्यान्तोऽयं परे मूर्धन्यान्तं तालव्यपश्चिमम्।
अन्ये चाहुः तथा कीटो वर्णे सङ्कोचने त्विह॥३१॥

चूर्णोऽथ पूजः पूजायामर्कस्स्तवन ईरितः।
एके तपन इत्याहुरालस्ये शुठ इष्यते॥३२॥

शुठिश्शोषण आख्यातो जुडस्तु प्रेरणे मतः।
गजो मार्जश्च मर्चश्च शब्दार्थाः परिकीर्तिताः॥३३॥

घृतुः प्रस्रवणे प्रोक्त एके स्रावण इत्यपि।
पचिर्विस्तारवचने तिजस्तु स्यान्निशातने॥३४॥

कृतस्संशब्दने वर्धश्छेदने पूरणेऽपि च।
कुबिराच्छादने प्रोक्तः कुभिरित्येक ऊचिरे॥३५॥

अदर्शने लिबितुबी एक इत्याहुरर्दने।
व्यक्तायां वाचि गदितो ह्लपः क्लप इतीतरे॥३६॥

ह्रप इत्यपरे प्राहुश्चुटिस्तु च्छेदने मतः।
इलः स्यात्प्रेरणे म्रक्षो म्लेच्छने समुदाहृतः॥३७॥

अव्यक्तवाचि ल्मेच्छस्स्यात् ब्रूसो हर्षस्तथापरः।
बर्हश्च हिंसार्थाः केचिद्गर्जो गर्दश्च निःस्वने॥३८॥

गर्धः स्यादभिकाङ्क्षायां इति चात्र पठन्ति हि।
पूर्वे निकेतने गुर्दो जसी रक्षण ईरितः॥३९॥

केचिन्मोक्षण इत्याहुः स्तुतावीडः प्रकीर्तितः।
हिंसायां जसु राख्यातः पिडिः सङ्घात उच्यते॥४०॥

रोषे रुषो रुट इति केचित्क्षेपे डिपो मतः।
ष्टूपः समुच्छ्राय उक्तोऽथानुदात्तानुबन्धकाः॥४१॥

आकुस्मादथ विज्ञेयाः चितस्सञ्चेतने स्मृतः।
दामृ दाने दंशने तु दशिस्स्याद्दसिरप्यथ॥४२॥

दंशने दर्शने च स्याद्दस इत्येक ऊचिरे।
डपो डिपश्च सङ्घाते प्रोक्तौ तत्रिरथोच्यते॥४३॥

कुटुम्बधारणे चान्द्राः कुटुम्बमपरं जगुः।
स्याद्गुप्तभाषणे मत्रिः स्पशः स्याद्ग्रहणे तथा॥४४॥

संश्लेषणे चाथ तर्जो भर्त्सश्चापीह तर्जने।
वस्तो गन्धश्चार्दने स्यात् हिंसायां विष्क ईरितः॥४५॥

एके हिष्क इति प्राहुर्निष्कस्तु परिमाणवाक्।
भवेच्च लल ईप्सायां वितर्के स्यम ईर्यते॥४६॥

गुरीरुद्यमने प्रोक्तः शमो लक्ष उभावपि।
आलोचने कुत्सयतिरवक्षेपण उच्यते॥४७॥

त्रुटस्स्याच्छेदने केचित्कुट इत्याहुरत्र तु।
गलः प्रस्रवणे प्रोक्तो भल आभण्डने स्मृतः॥४८॥

कूटोऽप्रदाने स्यादेषोऽवसादन इतीतरे।
कुट्टः प्रतापने वञ्चुः प्रलम्भन उदीरितः॥४९॥

शक्तिबन्धन आख्यातो वृषस्तच्छक्तिबन्धनम्।
सामर्थ्यं स्यात्प्रजनने शक्तिसम्बन्ध एव च॥५०॥

मदस्तु तृत्पियोगेऽथ दिवुः स्यात्परिकूजने।
गॄर्विज्ञाने विदः प्रोक्तः चेतनायां तथैव च॥५१॥

विवासाख्यानयोश्चासौ चतुर्गण्यां प्रपठ्यते।
सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे॥५२॥

विन्दते विन्दति प्राप्तौ श्यन्-लुक्-श्नंशे-ष्विदं क्रमात्।
मान(मन) स्तम्भे जुगुप्सयां युरयं परिकीर्तितः॥५३॥

कुस्म नाम्नो वेति गणसूत्रं ह्यत्र प्रकीर्तितम्।
कुस्मेत्ययं धातुरत्र कुत्सितस्मयनार्थकः॥५४॥

चर्चो भवेदध्ययने बुक्कः स्याद्भषणे तथा।
आविष्कारे चोपसर्गाच्छब्दश्चाद्भाषणे मतः॥५५॥

स्यात्तथानुपसर्गाच्च कणः प्रोक्तो निमीलने।
जभिस्स्यान्नाशने षूदः क्षरणे ताडने जसुः॥५६॥

पशो बन्धन आख्यातस्त्वमो रोगे प्रकीर्तितः।
चटस्फुटौ भेदने स्तः सङ्घाते घट ईरितः॥५७॥

हन्त्यर्थाश्चेत्यत्र गणसूत्रं स्यान्मर्दने दिवुः।
अर्जः स्यात्प्रतियत्नेऽथ घुषिर् प्रोक्तो विशब्दने॥५८॥

मोक्षोऽवसाने सम्प्रोक्तोऽवसानं क्षेप उच्यते।
आङः क्रन्दो हि सातत्येऽन्ये घुषं प्राहुराङ्युतम्॥५९॥

लसः स्याच्छिल्पयोगेऽथालङ्कारे स्यात्तसिस्तथा।
भूषश्चाथ भवेद्घोषोऽसने तत्क्षेपणं मतम्॥६०॥

पूजायामर्ह उदितो ज्ञा नियोगे प्रकीर्तितः।
भजो विश्राणने प्रोक्तः शृधुः प्रहसने मतः॥६१॥

निकारोपस्कारयोः स्यात् यतोऽथास्वादने रकः।
लगश्च रघ इत्येके रग इत्यपरे विदुः॥६२॥

अञ्चुर्विशेषणे प्रोक्तः स्यात् चित्रीकरणे लिगिः।
मुदः संसर्ग आख्यातस्त्रसो धारण इष्यते॥६३॥

प्राहुर्ग्रहण इत्येके स्याद्वारण इतीतरे।
उञ्छे स्यादु ध्रस इहोकारो धात्वङ्गमिष्यते॥।६४॥

इत्याहुः केचिन्नेत्यन्ये मुचोऽथ स्यात्प्रमोचने।
मोदने च वसस्तु स्यात् स्नेहेऽपहरणे तथा॥६५॥

छेदे चाथ चरः प्रोक्तः संशये च्युस्तु कथ्यते।
सहने हसने चैके च्युस इत्यपरे विदुः॥६६॥

भुवोऽवकल्कने केचित्तं मिश्रीकरणं विदुः।
प्राहुश्चिन्तनमित्यन्ये कृपेश्चात्रैवणिज्भवेत्॥६७॥

सकर्मकादिति पदं पुरस्कृत्यास्पदः पदम्।
गणसूत्रं स्वदिमभिव्याप्य णिच्तु भवेदिह॥६८॥

सम्भवत्कर्मकादेवेत्यर्थकं परिचक्षते।
ग्रसस्स्याद्ग्रहणे स्याण्णिच्फलं ग्रासयतीति हि॥६९॥

सुव्यक्त एव विज्ञेयः कर्मणीत्यर्थकं विदुः।
पुषो धारण आख्यातो दलः प्रोक्तो विदारणे॥७०॥

पटः पुटो लुटकुटौ तुजिर्मिजिपिजी लुजिः।
भजिर्लघिस्त्रसिपिसी कुसिर्दशि कुशि घटः॥७१॥

घटिर्बृहिर्बर्हबल्हौ गुपो धूपायतिस्तथा।
विच्छचीवौ योधयतिर्लोकृलोचृ णदः कुपः॥७२॥

कुपस्तर्कौ वृतुवृधू भाषार्थाः परिकीर्तिताः।
रुटो रजिर्लजिरजिर्दसिर्भृशिरुशी रुसिः॥७३॥

शीको नटः पुटपुटीरुचिर्लघिरधी अहिः।
रहिर्महिश्चाथ लडिस्तडिर्नलयतिश्च सः॥७४॥

अमी अपि स्युर्भाषार्थाः पूर्वदण्डकगा इव।
अथाप्यायन आख्यातः पूरीर्हिंसार्थको रुजः॥७५॥

ष्वद आस्वादने प्रोक्तः स्वाद इत्येक ऊचिरे।
आधृषाद्वा सूत्रमितो धृषान्ता धातवोऽखिलाः॥७६॥

णिचं वामी प्राप्नुवन्तीत्यर्थकं गणमध्यगम्।
धातू-इमौ युजपृचौ मतौ संयमनार्थकौ॥७७॥

अर्चः पूजार्थकः प्रोक्तः षहो मर्षण ईरितः।
ईरः क्षेपे भवेल्लीस्तु स्याद्द्रवीकरणार्थकः॥७८॥

वृजीस्स्याद्वर्जने वृञ् तु प्रोक्त आवरणार्थकः।
वयोहान्यर्थको जॄः स्याज्ज्रिश्च रेचयतिस्तु सः॥७९॥

वियोजने तथा सम्पर्चने च परिकर्तितः।
शिषोऽसर्वोपयोगे स्याद्विपूर्वोऽतिशये मतः॥८०॥

तपो दाहे तृपस्तृप्तौ सन्दीपन इतीतरे।
छृदीः सन्दीपने प्रोक्तश्चृपश्छृपदृपावपि॥८१॥

स्युः सन्दीपन इत्येके दृभीर्भय उदाहृतः।
दृभस्सन्दर्भ आख्यातो मोक्षणे श्रथ ईरितः॥८२॥

हिंसार्थमन्ये ब्रुवते मीर्गतौ परिकीर्तितः।
ग्रन्थो बन्धन आख्यातः शीक आमर्षणे मतः॥८३॥

चीकश्चाथार्द उदितो हिंसायां स्वरितेदयम्।
हिसिर्हिंसार्थकोऽर्हः स्यात् पूजायामाङ्युतष्षदः॥८४॥

पद्यर्थे स्याच्छुन्धयतिः शौचकर्मणि कीर्तितः।
छदोऽपवारणे प्रोक्तो जुषस्स्यात्परिकर्णने॥८५॥

परिकर्णनमूहो वा हिंसा वा परिकीर्तितौ।
परितर्पण इत्यन्ये परितृप्तिक्रिया हि तत्॥८६॥

धूञ् कम्पने भवेत्प्रीञ् तु तर्पणे परिकीर्तितः।
श्रन्थो ग्रन्थश्च सन्दर्भ आपॢ लम्भन ईरितः॥८७॥

एकेऽयं सान्त्वन इति स्वरितेदिति केचन।
श्रद्धोपकरणार्थः स्यात्तनुर्दैर्घ्यै भवेदयम्॥८८॥

उपसर्गात्परश्चाथ श्रद्धायां कीर्त्यते चनः।
तथोपहसने चेति केचिदाहुर्मनीषिणः॥८९॥

वदः सन्देशवचने स्वरितेदयमिष्यते।
एकेऽनुदात्तेदित्याहुर्वचस्स्यात्परिभाषणे॥९०॥

पूजायां मान आख्यातो भूः प्राप्तावात्मनेपदी।
गर्हो विनिन्दने प्रोक्तो मार्गस्त्वन्वेषणार्थकः॥९१॥

शोके स्यात्कठिरुत्पूर्व उत्कण्ठायामथो मृजूः।
शौचेऽलङ्कारेऽथ मृषस्तितिक्षायां प्रकीर्तितः॥९२॥

स्वरितेत्स्यादयमथ धृषः प्रसहने स्मृतः।
आथादन्ताः प्रकथ्यन्ते कथाद्याश्च यथाक्रमम्॥९३॥

कथो वाक्यप्रबन्धे स्यादीप्सायां वर ईरितः।
गणस्सङ्ख्यान उक्तस्तज्ज्ञानं सङ्ख्यानिमित्त्तकम्॥९४॥

असद्युग्भाषणे स्यातां शठ श्वठयती उभौ।
पटो वटश्च ग्रन्थे स्याट्ठान्तावित्येक ऊचिरे॥९५॥

रहस्त्यागे स्तनगदौ देवशब्दे प्रकीर्तितौ।
पतो गतौ वा णिजन्तो वादन्त इति केचन॥९६॥

पषस्त्वनुपसर्गात्स्यात्स्वर आक्षेप ईरितः।
प्रतियत्ने रचः प्रोक्तः सङ्ख्याने च गतौ कलः॥९७॥

परिकल्कनवाची स्याच्चहस्तत्परिकल्कनम्।
दम्भश्श्याठ्यं चेह मतं पूजायां मह ईरितः॥९८॥

सारः कृपश्श्रथश्चैते दौर्बल्ये परिकीर्तिताः।
ईप्सायां स्यात्स्पृहो भामः क्रोधे सूचयतिस्तु सः॥९९॥

पैशुन्ये भक्षणे खेटः तृतीयान्तं परे विदुः।
अन्ये खोट इति प्राहुः क्षोटः क्षेपे प्रकीर्तितः॥१००॥

उपलेपे गोम उक्तः क्रीडायां परिकीर्त्यते।
कुमारोऽथोच्यते शील उपधारणबोधकः॥१०१॥

उपधारणमभ्यासः सामस्सान्त्वप्रयोजने।
वेलः कालोपदेशे स्यात्कालं धात्वन्तरं विदुः॥१०२॥

लवने पवने चैव पल्पूलः परिकीर्तितः।
सुखसेवनयोर्वातः सेवागत्योरितीतरे॥१०३॥

गवेषः स्यान्मार्गणेऽथोपसेवायां प्रकीर्त्यते।
वासोऽथाच्छादने प्रोक्तो निवासोऽथ पृथक्कृतौ॥१०४॥

भाजोऽथ दर्शने प्रीतौ सभाजः परिकथ्यते।
प्रीतौ सेवन इत्येके परिहाणे निगद्यते॥१०५॥

ऊनोऽथ स्याद्ध्वनश्शब्दे कूटस्तु परितापवाक्।
परिदाहेऽयमित्येके सङ्केतो ग्राम एव च॥१०६॥

कुणो गुणश्च सम्प्रोक्ता अमी आमन्त्रणार्थकाः।
चात्कूटोऽपि समानार्थः पाठान्तरमपीष्यते॥१०७॥

केतो निकेतश्च भवेच्छ्रावणे च निमन्त्रणे।
कुणो गुणश्चेह तथाऽऽमन्त्रणे समुदीरितौ॥१०८॥

चात्केतकूटौ कूणः स्यात्सङ्कोचन इतीह हि ।
स्तेनश्चौर्ये ह्यथागर्वादात्मनेपदिनो मताः॥१०९॥

पदो गतौ गृहस्तु स्यात् ग्रहणेऽन्वेषणे मृगः।
कुहो विस्मापने शूरवीरौ विक्रन्तिबोधकौ॥११०॥

भवेत् स्थूलयतिस्त्वत्र परिबृंहणवाचकः।
अर्थः स्यादुपयाच्ञायां सत्रस्सन्तानकर्मणि॥१११॥

गर्वो माने भवेत्सूत्रो वेष्टने परिकीर्तितः।
मूत्रः प्रस्रवणे प्रोक्तो रूक्षः पारुष्य ईरितः॥११२॥

पारस्तीर उभौ कर्मसमाप्तेः प्रतिबोधकौ।
उत्सर्गे स्यात्पुटो धेको दर्शनार्थ इतीतरे॥११३॥

शैथिल्ये स्यात्कत्रयतिः कर्त इत्येक ऊचिरे।
स्यात्प्रातिपदिकाद्धातोरर्थे बहुलमिष्टवत्॥११४॥

तत्करोति तदाचष्टे तेनातिक्रामतीति च।
धातुरूपं चाथ कर्तृकरणप्रतिबोधकात्॥११५॥

धात्वर्थे णिजितीमानि गणसूत्राणि पञ्च हि।
बष्को दर्शन आख्यातश्चित्रश्चित्रीकृतौ मतः॥११६॥

कदाचिद्दर्शने तत्तु भवेदद्भुतदर्शनम्।
अथांसनामको धातुः समाघाते प्रकीर्तितः॥११७॥

वटो विभाजने प्रोक्तो लजस्तु स्यात्प्रकाशने।
वटिर्लजिरिति ह्येके मिश्रस्सम्पर्कबोधकः॥११८॥

सङ्ग्रामो युद्ध आख्यातो ह्यनुदात्तानुबन्धकः।
श्लाघायां स्तोम उदितः छिद्रकर्णौ तु भेदने॥११९॥

कर्णच्छेदन इत्येके कर्णं धात्वन्तरं परे।
अन्धो दृष्ट्यापघाते स्यादुपसंहार वाच्ययम्॥१२०॥

इत्यन्ये चक्षते दण्डः प्रोक्तो दण्डनिपातने।
अङ्कः पदे लक्षणे चाप्यङ्गश्च परिकथ्यते॥१२१॥

सुखदुःखौ तत्क्रियायां रस आस्वादने तथा।
स्नेहने च व्ययो वित्तसमुत्सर्गे प्रकीर्तितः॥१२२॥

रूपो रूपक्रियायां स्याद्रूपस्येह हि दर्शनम्।
रूपक्रियेति सम्प्रोक्तं रूपस्य कृतिरेव वा॥१२३॥

छेदो द्वैधीकृतौ प्रोक्तः छद उक्तोऽपवारणे।
इत्येके कथयन्तीह लाभस्स्यात्प्रेरणार्थकः॥१२४॥

व्रणस्त्विह भवेद्गात्रविचूर्णनविबोधकः।
वर्णो वर्णक्रियायां स्याद्विस्तारे च गुणोक्तिषु॥१२५॥

एतन्निदर्शनमिह बहुलं गणसूत्रकम्।
अन्येऽपि धातवो बोध्या इह बाहुलकाद्यथा॥१२६॥

पर्णो हरितभावे स्याद्विष्को दर्शन इष्यते।
क्षपस्तु प्रेरणे बोध्यो निवासे वस इत्यपि॥१२७॥

तुत्थ आवरणे बोध्या एवमन्येऽपि धातवः।
णिङङ्गात्स्यान्निरसन इत्येतद्गणसूत्रकम् (गणसूत्रम् २०९)॥१२८॥

(श्वेताश्वाश्वतरगालोडिताह्वारकाणामश्वतरे- तक लोपश्च पुच्छादिषु धात्वर्थ इत्येव सिद्धम्।
गणसूत्रे इमे स्यातां ग्रन्थान्ते मङ्गलार्थकः॥

सिद्धशब्द इति ज्ञेयमत्रैवं सर्वधातवः।
कारिकाभिस्सुसंगृह्य कथिता बालतुष्टये॥)

॥ इति चुरादयः॥

Comments

Popular posts from this blog

Does sanAtana dharma (hinduism) "approve" of LGBTQ

Hindu view of food and drink: a critique - Part 2

वन्दे वन्दारुमन्दारमिन्दुभूषणनन्दनम् ।