Dhātukārikā - Tudādigaṇaḥ

॥अथ तुदादयः॥
तुदस्स्याद्व्यथने प्रोक्तस्स्वरितेतोऽनिटश्च षट्।
णुदः प्रेरण आख्यातो दिशस्स्यादतिसर्जने॥१॥
अत्रातिसर्जनं दानं भ्रस्जः पाके प्रकीर्तितः।
क्षिपः प्रेरण आख्यातः कृषस्तु स्याद्विलेखने॥२॥
परस्मैपद्यृषीरत्र गत्यर्थः परिकीर्तितः।
जुषीः प्रीतौ सेवने च चत्वार इत आदितः॥३॥
आत्मनेपदिनः प्रोक्ता ओविजीश्चलने भये।
उत्पूर्वः प्रायशश्चायमोलस्जी रोलजीरपि॥४॥
परस्मैपदिनोऽथ स्युर्दशोत्तरशतन्त्विह।
ओव्रश्चूश्छदने प्रोक्तो व्यचो व्याजीकृतौ मतः॥५॥
उछिरुञ्छे विवासार्थ उछीः प्रोक्तोऽथ ऋच्छतिः।
गतीन्द्रियप्रलययोर्मूर्तिभावे च कीर्तितः॥६॥
उत्क्लेशे स्यान्मिच्छतिस्तु पीडोत्क्लेश इहेष्यते।
जर्जश्चर्चो झर्झतिश्च तर्जने परिभाषणे॥७॥
त्वचस्संवरणे प्रोक्तः स्तुतावृच उदाहृतः।
उब्जस्स्यादार्जवे ह्युज्झ उत्सर्गेऽथ विमोहने॥८॥
लुभो विमोहनमिहाकुलीकरणमीरितम्।
निन्दा-हिंसा-दान-युद्ध-कत्थनेषु रिफो मतः॥९॥
रिहेत्येके तृपस्तृम्फस्तृप्तौ हि परिकीर्तितौ।
आद्यस्स्यात्प्रथमान्तोऽत्र द्वितीयान्तो द्वितीयकः॥१०॥
द्वितीयान्तौ द्वावपीति परेऽथ तुपतुम्पती।
तुफस्तुम्फश्च हिंसायामुत्क्लेशे दृप-दृम्फती॥११॥
प्रथमः प्रथमान्तोऽत्र द्वितीयान्त इतीतरे।
ऋफ-ऋम्फौ तु हिंसायां ग्रन्थेऽत्र गुफ गुम्फती॥१२॥
उभोम्भौ पूरणे स्यातां शोभार्थे शुभ शुम्भती।
दृभीर्ग्रन्थेऽथ हिंसायां ग्रन्थने च चृतीस्स्मृतः॥१३॥
विधो विधानेऽथ जुडो नुडश्चापि गतौ स्मृतौ।
तवर्गपञ्चमान्तोऽयमाद्य इत्येक ऊचिरे॥१४॥
मृडस्स्यात्सुखने तद्वत्पृडश्च प्रीणने पृणः।
वृणश्चाप्यथ हिंसायां मृणतिः परिकीर्तितः॥१५॥
तुणः कौटिल्येऽथ शुभे कर्मणि प्रोच्यते पुणः।
प्रतिज्ञाने मुणश्शब्दे तथोपकरणे कुणः॥।१६॥
शुनो गतौ द्रुणो हिंसागतिकौटिल्यकर्मसु।
भ्रमणे घुणघूर्णौ तु दीप्त्यैश्वर्यार्थकष्षुरः॥१७॥
कुरश्शब्दे छेदने स्यात्खुरस्संवेष्टने मुरः।
क्षुरो विलेखने प्रोक्तो घुरो भीमार्तशब्दयोः॥१८॥
पुरस्स्यादग्रगमने वृहूरुद्यमने त्वयम्।
दन्त्योष्ठ्यादिः पवर्गीयादिस्स्यादित्यन्य ऊचिरे॥१९॥
तृहूः स्तृहूश्च तृंहूश्च हिंसार्थाः परिकीर्तिताः।
इच्छायां त्विष आख्यातस्स्पर्धायां मिष ईरितः॥२०॥
किलश्श्वैत्यक्रीडनयोस्तिलः स्नेहे चिलस्तुः सः।
वसने स्याद्विलसने चलस्तु परिकीर्तितः॥२१॥
इलस्स्वप्नक्षेपणयोर्विलस्सञ्चरणे स्मृतः।
दन्त्योष्ठ्यादिरयं प्रोक्तस्त्वोष्ठ्यादिर्भेदने बिलः॥२२॥
गहने स्याण्णिलो भावकरणे हिल उच्यते।
उञ्छे प्रोक्तौ शिलषिलौ मिलस्तु श्लेषणे मतः॥२३॥
लिखस्त्वक्षरविन्यासे कुटः कौटिल्य ईरितः।
पुटस्संश्लेषणे प्रोक्तः कुचस्सङ्कोचने मतः॥२४॥
गुजश्शब्देऽथ रक्षायां गुडः क्षेपे डिपस्स्मृतः।
छुरश्छेदन आख्यातस्स्फुटो विकसने मतः॥२५॥
प्रमर्दने तथाक्षेपे मुटस्स्याच्छेदने त्रुटः।
वा श्यन्विकरणोऽयं स्यात्तुटः कलहकर्मणि॥२६॥
चुटच्छुटौ छेदनेऽथ जुडो बन्धन ईरितः।
कडो मदेऽथ लुटतिस्संश्लेषण उदीरितः॥२७॥
कृडो घनत्वेऽथ भवेद्घनत्वं सान्द्रता मता।
कुडो बाल्ये पुडस्तु स्यादुत्सर्गे घुटतिस्तु सः॥२८॥
प्रतीघाते तोडने स्यात्तुडो भेदस्तु तोडनम्।
थुडः स्थुडौ संवरणे खुडश्छुड इतीतरे॥२९॥
स्फुर-स्फुलौ सञ्चलने स्फुरस्तु स्फुरणे स्मृतः।
स्फुलस्सञ्चलने प्रोक्त इत्येके परिचक्षते ॥३०॥
अकारोपधकं केचित्पठन्ति स्फर इत्यपि।
स्फुडश्चुडो ब्रुडश्श्चैते मतास्संवरणे त्रयः॥३१॥
निमज्जने क्रुडभृडावित्येके ब्रुवते बुधाः।
गुरीरुद्यमने प्रोक्तो ह्यनुदात्तेदयं मतः॥३२॥
स्तवने णूस्तु दीर्घान्तः परस्मैपदिनस्त्वितः।
आरभ्य स्युर्हि चत्वारो धूर्विधूनन इष्यते॥३३॥
गुः पुरीषोत्सर्ग उक्तो ध्रुर्गतिस्थैर्ययोरिमौ।
अनिटौ ध्रुव इत्येत्पाठान्तरमपीष्यते॥३४॥
कुङ् शब्देऽनिडिमं प्राहुर्दीघान्तं कैयटादयः।
ह्रस्वान्तं न्यासकाराद्याः कुटादेः पूर्तयेऽत्र वृत्॥३५॥
पृङ् व्यायामे प्रायशोऽयं व्याङ् पूर्वः कथ्यते बुधैः।
प्राणत्यागे मृङ् सप्त स्युः परस्मैपदिनो ह्यथ॥३६॥
रिःपिर्गतौ धारणे धिः क्षिर्निवासे गतावपि।
पृङ्ङादयः षडनिटः षूस्तु प्रेरण ईरितः॥३७॥
कॄर्विक्षेपनिगरणे गॄर्दृङादर आङ्युतः।
अवस्थाने धृङ्दश षट् परस्मैपदिनस्त्वथ॥३८॥
ज्ञीप्सायां प्रच्छ उदितो वृत्किरादेः समाप्तये।
सृजो विसर्गे कथितः शुद्धौ मस्जो निगद्यते॥३९॥
रुजो भङ्गे निगदितो भुजो कौटिल्य ईरितः।
छुपः स्पर्शे रुशरिशौ हिंसायां लिशतिर्गतौ॥४०॥
स्पृशः संस्पर्शनेऽनिट्कादृङ्ङाद्या द्वादश क्रमात्।
विच्छो गतावथविशः प्रवेशन उदाहृतः॥४१॥
मृश आमर्शने प्रोक्तः स्पर्श आमर्शनं मतम्।
णुदस्तु प्रेरणे षदॢ प्रोक्तो विशरणे गतौ॥४२॥
तथावसादने चाथ शदॢ शातन ईरितः।
विशादयोनिटः पञ्च स्वरितेतोऽथ षण्मताः॥४३॥
मिलस्स्यात्सङ्गमे मृचॢ मोक्षणे छेदने लुपॢ।
विदॢ लाभे लिप उपदेहे वृद्धिः स इष्यते॥४४॥
षिचः स्यात्क्षरणेऽनिट्का मुचाद्याः पञ्च कीर्तिताः।
विन्दतिर्व्याघ्रभूत्यादिमते सेट्कः प्रकीर्तितः॥४५॥
परस्मैपदिनोऽथ स्युः त्रयोऽथ च्छेंदने कृतीः।
खिदो दैन्ये ह्यनिट्कोऽयं पिशोऽवयव ईरितः॥४६॥
मुचादेश्च तुदादेश्च समाप्तिद्योतनाय वृत्॥
॥इति तुदादयः॥

Comments

Popular posts from this blog

Does sanAtana dharma (hinduism) "approve" of LGBTQ

Hindu view of food and drink: a critique - Part 2

वन्दे वन्दारुमन्दारमिन्दुभूषणनन्दनम् ।