Posts

Showing posts from June, 2018

दुष्टः सज्जनस्य गुणान् न गणयति

नो ताण्डवेन नयनामृतनिर्झरेण केकारवेण न च कर्णरसायनेन । बर्हेण चापि सुरचापरुचा तवाय- मोतुर्न तुष्यति शिखिन्वधमन्तरेण ॥ -- वल्लभदेवस्य सुभाषितावली । सत्स्वप्यनेकेषु गुणेषु यः खलः सः गुणवन्तं दूषयति / हन्तीति भावः । शिखिनस्ताण्डवममृतरसनिष्यन्दि । तस्य केकारवः श्रवणस्य कृते रसायनमिव । तस्य बर्हाः इन्द्रधनुरिवानेकैर्वर्णैः कर्बुरः सुन्दरश्च । सत्स्वप्येतेष्वनेकेषूत्तमगुणेषु तुष्टिस्थानेष्वोतुः (बिडालः / मार्जारः) शिखिनः वधं विना न तुष्यति । हे शिखिन्निति संबोधनम्। शिखिन्, न तवोत्तमगुणैः बिडालस्य कार्यम् । न तस्य पुरत एनान्गुणान्प्रदर्शयेति कवेराशयः ॥ The evil minded doesn't care about the multiplicity of good qualities in a good man. In this subhāṣita the Kavi advises a peacock thus - O peacock, the cat isn't amused by your dance which is nectarine to the eyes, not by your sweet sound which is elixir to the ears, nor by your feathers as beautiful as the rainbow. The cat will not be amused by anything but your death. The sense is that it is futile to display one