श्रीमद्वाल्मीकिरामायणं तिलकटीकोपेतम् । युद्धकाण्डम्, ००२ सर्गः
द्वितीयः सर्गः ।
श्लोकः
तं तु शोकपरिद्यूनं रामं दशरथात्मजम् ।
उवाच वचनं श्रीमान्सुग्रीवः शोकनाशनम् ॥ १ ॥
टीका
शोकपरिद्यूनं शोकसंतप्तम् ॥१॥
श्लोकः
किं त्वया तप्यते वीर यथान्यः प्राकृतस्तथा ।
मैवं भूस्त्यज संतापं कृतघ्न इव सौहृदम् ॥ २ ॥
टीका
प्राकृतो यथा तप्यति तथा त्वया किं तप्यत इत्यन्वयः । एवं संतप्तः कृतघ्नो यथा सोहृदं त्यजति तथा त्वं संतापं त्यज ॥ २ ॥
श्लोकः
संतापस्य च ते स्थानं नहि पश्यामि राघव ।
प्रवृत्तावुपलब्धायां ज्ञाते च निलये रिपोः॥ ३ ॥
टीका
स्थानं निमित्तम् । प्रवृत्तौ जीवने ॥ ३ ॥
श्लोकः
मतिमाञ्छास्त्रवित्प्राज्ञः पण्डितश्चासि राघव ।
त्यजेमां प्राकृतां बुद्धिं कृतात्मेवार्थदूषिणीम् ॥ ४ ॥
टीका
शास्त्रवित्-नीत्यादिशास्त्रज्ञः । मतिमान्भाव्यर्थज्ञानयोग्यबुद्धिः । प्राज्ञो विचारकुशलः । पण्डितो विचारपूर्वं सिद्धान्तप्रतिष्ठापनसमर्थः । स त्वमिमां प्राकृतां मत्यादिरहितप्राकृतजनोचितां बुद्धिं दीनबुद्धिं त्यज । कृतात्मा योगी यथार्थस्य स्वेष्टस्य योग्यस्य दूषिणीं दूषिकां कामादिविषयां बुद्धिं त्यजति तद्वत्त्वं त्यजेत्यर्थः ॥ ४ ॥
श्लोकः
समुद्रं लङ्घयित्वा तु महानक्रसमाकुलम् ।
लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम् ॥ ५ ॥
टीका
समुद्रलङ्घनेऽपि चिन्ता न कार्येत्याह -- समुद्रमिति । वक्ष्यमाणोपायेनेति शेषः । आरोहयिष्याम आरोक्ष्यामः ॥ ५ ॥
श्लोकः
निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः ।
सर्वार्था व्यवसीदन्ति व्यसनं चाधिगच्छति ॥ ६ ॥
टीका
निरुत्साहत्वादिगुणको व्यसनदुःखपरम्परामधिगच्छति प्राप्नोति ॥६॥
श्लोकः
इमे शूराः समर्थाश्च सर्वतो हरियूथपाः ।
त्वत्प्रियार्थं कृतोत्साहाः प्रवेष्टुमपि पावकम् ।
एषां हर्षेण जानामि तर्कश्चापि दृढो मम ॥ ७ ॥
टीका
ननु किं बलादस्माकमुत्साहः स्यात्तदाह -- इमे इति । सर्वतः समर्था इत्यन्वयः । मत्प्रियार्थमिमे कृतोत्साहा इति कथं ज्ञातं तत्राह -- एषामिति । हर्षेण समुद्रतरणरावणप्रसङ्गे जायमानेन । तत्कार्यमुखविकासादिनानुमितेनेत्यर्थः । ममापि दृढस्तर्कः । समुद्रतरणरावणहननादिविषयो दृढनिश्चय इत्यर्थः । तत्सर्वं ममेषत्करमिति भावः ॥ ७ ॥
श्लोकः
विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम् ।
रावणं पापकर्माणं तथा त्वं कर्तुमर्ह ॥ ८ ॥
टीका
यदेवम् , अतो यथा रिपुं हत्वा सीतां विक्रमेण समानेष्ये तथा तदुचितमुत्साहं त्वं कर्तुमर्हसीत्यर्थः ॥ ८ ॥
श्लोकः
सेतुरत्र यथा बद्ध्येत् यथा पश्मेम तां पुरीम् ।
तस्य राक्षसराजस्य तथा त्वं कुरु राघव ॥ ९ ॥
टीका
किं मया कार्यं तत्राह -- सेतुरिति । अत्र समुद्रे । यथा तस्य राक्षसराजस्य तां पुरीं पश्येम तथा त्वं कुरु । दिव्यास्त्रालम्बनेनेति शेषः ॥९॥
श्लोकः
दृष्ट्वा तां हि पुरीं लङ्कां त्रिकूटशिखरे स्थिताम् ।
हतं च रावणं युद्धे दर्शनादवधारय ॥ १० ॥
टीका
त्रिकूटशिखरस्थां तां लङ्कां दृष्ट्वा दर्शनात्तद्दर्शनसमनन्तरमेव युद्धे रावणं हतं जानीहि ॥ १० ॥
श्लोकः
अबद्ध्वा सागरे सेतुं घोरे च वरुणालये ।
लङ्का न मर्दितुं शक्या सेन्द्रैरपि सुरासुरैः ॥ ११ ॥
टीका
सेतुबन्धं विना प्रकारान्तरं लङ्काप्राप्तौ नास्ति सोऽपि कृत एवेति निश्चिन्वित्याह -- अबद्ध्वेति ॥ ११ ॥
श्लोकः
सेतुबन्धः समुद्रे च यावल्लङ्कासमीपतः ।
सर्वंतीर्णञ्च मे सैन्यं जितमित्युपधारय ।
तथा हि समरे वीरा हरयः कामरूपिणः ॥ १२ ॥
टीका
लङ्कासमीपतस्तत्समीपं यावत्सेतुबन्धः कृत एव सर्वं सैन्यं तीर्णमेवास्माभिर्जितं चेत्युपधारय निश्चिनु । तथानिश्चये हेतु माह -- तथा हीति । हि यतस्तादृशशोर्यवन्तो हरय इमे दृश्यन्ते, यतस्ते कामरूपिणः ॥ १२ ॥
श्लोकः
तदलं विक्लवां बुद्धिं राजन्सर्वार्थनाशनीम् ।
पुरुषस्य हि लोकेऽस्मिशोकः शौर्यापकर्षणः ॥ १३ ॥
टीका
तत्तस्माद्विक्लवां सर्वार्थनाशनीं बुद्धिमवलम्ब्यालम् । हि यतः शौर्यापकर्षणस्तन्नाशकः ॥ १३ ॥
श्लोकः
यत्तु कार्यं मनुष्येण शौटीर्यमवलम्ब्यताम् ।
तदलंकरणायैव कर्तुर्भवति सत्वरम् ॥ १४ ॥
टीका
मनुष्येण तु शोटीर्यं तद्युक्तं यत्कार्यं कर्तुं योग्यं तदेवावलम्ब्यताम् । अवलम्बयितुमुचितमित्यर्थः । यतः सत्वरं क्रियमाणं तत्कर्तुरलंकरणायैव भवति फलसाधनाय समर्थं भवति ॥ १४ ॥
श्लोकः
अस्मिन्काले महाप्राज्ञ सत्त्वमातिष्ठ तेजसा ।
शूराणां हि मनुष्याणां त्वद्विधानां महात्मनाम् ।
विनष्टे वा प्रनष्टे वा शोकः सर्वार्थनाशनः ॥ १५ ॥
टीका
अतो हे महाप्राज्ञ, त्वं तेजसा सह सत्त्वं गुणमातिष्ठ । विनष्टे सीतावददर्शनं गते । प्रनष्टे दशरथवत्सर्वथादर्शनं गते ॥ १५ ॥
श्लोकः
तत्त्वं बुद्धिमतां श्रेष्ठः सर्वशास्त्रार्थकोविदः ।
मद्विधैः सचिवैः सार्धमरिं जेतुं समर्हसि ॥ १६ ॥
टीका
उपसंहरति -- तदिति ॥ १६ ॥
श्लोकः
नहि पश्याम्यहं कंचित्त्रिषु लोकेषु राघव ।
गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे ॥ १७ ॥
टीका
जयेषु पुष्कलं ते सामर्थ्यमस्तीत्याह -- नहीति । तिष्ठेत्स्थातुं शक्नुयात् ॥ १७ ॥
वानरेषु समासक्तं न ते कार्यं विपत्स्यते ।
अचिराद्द्रक्ष्यसे सीतां तीर्त्वा सागरमक्षयम् ॥ १८ ॥
टीका
सहायसंपत्त्यापि जयं निश्चिन्वित्याह वानरेष्विति । वानरेषु महाबलेष्वस्मादृशेषु समासक्तं कर्तव्यत्वेन संबद्धं कार्यं न विपत्स्यते न नङ्क्ष्यति ॥ १८॥
श्लोकः
तदलं शोकमालम्ब्य क्रोधमालम्ब भूपते ।
निश्चेष्टाः क्षत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति ॥ १९ ॥
टीका
तदिति । शोकमालम्ब्यालम् । मा शोकमालम्बस्वेत्यर्थः । क्रोधमालम्बेति यथाप्राप्तम् । शत्रुविषयकमित्यर्थः । अन्वयव्यतिरेकाभ्यां शत्रुविषये कोप आवश्यक इत्याह-निश्चेष्टा इति । मन्दाः शत्रुविषये क्रोधहीनाः क्षत्रिया निश्चेष्टा भवन्ति । शत्रूकृतबन्धनादिनेति शेषः । चण्डस्य उचितकोपस्य सर्वे बिभ्यति ॥ १९ ॥
श्लोकः
लङ्घनार्थ च घोरस्य समुद्रस्य नदीपतेः ।
सहास्माभिरिहोपेतः सूक्ष्मबुद्धिर्विचारय ॥ २० ॥
टीका
अस्माभिः सह नदीपतेर्लङ्घनार्थं लङ्घने हेतुमस्माभिरुपेतः सन्सूक्ष्मबुद्धिस्त्वं विचारय ॥ २० ॥
श्लोकः
लङ्घिते तत्र तैः सैन्यैर्जितमित्येव निश्चिनु ।
सर्वं तीर्णं च मे सैन्यं जितमित्यवधार्यताम् ॥ २१ ॥
टीका
सर्वं तीर्णं जितमिति चावधार्यतामवधारय । तत्र सागरे लङ्घिते सति तैर्मदीयैः सैन्यैर्जितमिति निश्चिनु । पाठान्तरे समुद्रे लङ्घिते तैर्वानरस्तस्य रावणस्य सैन्यं जितमिति निश्चिन्वित्यर्थः ॥२१॥
श्लोकः
इमे हि हरयः शूराः समरे कामरूपिणः ।
तानरीन्विधमिष्यन्ति शिलापादपवृष्टिभिः ॥ २२ ॥
टीका
तेषु जेतृत्वशक्तिमाह -- इमे हीति ॥ २२ ॥
श्लोकः
कथंचित्परिपश्यामि लङ्घितं वरुणालयम् ।
हतमित्येव तं मन्ये युद्धे शत्रुनिबर्हण ॥ २३ ॥
टीका
कथंचित्केनाप्युपायेन । वरुणालयं लङ्घितमेव पश्यामि ॥ २३ ॥
श्लोकः
किमुक्त्वा बहुधा चापि सर्वथा विजयी भवान् ।
निमित्तानि च पश्यामि मनो मे संप्रहृष्यति ॥ २४ ॥
टीका
निमित्तमेवाह -- मन इति ॥ २४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकान्ये युद्धकाण्डे द्वितीयः सर्गः॥ २ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे द्वितीयः सर्गः ॥२॥
Comments