Posts

Showing posts from March, 2018

वन्दे वन्दारुमन्दारमिन्दुभूषणनन्दनम् ।

वन्दे वन्दारुमन्दारमिन्दुभूषणनन्दनम्। अमन्दानन्दसन्दोहबन्धुरं सिन्धुराननम ॥ संस्कृतानुवादः अन्वयः विग्रहवाक्यानि च वन्दे इति क्रियापदम् । गणेशमिति योजना । कथंभूतस्सः । वन्दारुमन्दारः - वन्दारूणां मन्दारः वन्दनशीलजनानां स्वर्वृक्ष इवेति यावत् । तेषां कामनाप्रदातृत्वात् । इन्दुभूषणः शिवः तस्य नन्दनः इन्दुभूषणनन्दनः । शिवपुत्र इति यावत् । अमन्दानन्दसन्दोहबन्धुरः - अमन्दः तीव्रः आनन्दस्य सन्दोहः आनन्दसन्दोहः अमन्दश्चासावानन्दसन्दोहश्चेति अमन्दानन्दसन्दोहः अमन्दानन्दसन्दोहेन बन्धुरः अमन्दानन्दसन्दोहबन्धुरः । तीव्रानन्दसमूहादुन्नतानत इति यावत् । बन्धुरन्तून्नतानतमित्यभिधानात् । यद्यपि भगवतः स्वात्मारामत्वात्संसारविषयानासक्तत्वोन्नतत्वं तथापि भक्तानां कृते सुलभत्वानतत्वमिति भावः । सिन्धुराननः - सिन्धुरस्याननमेवाननं यस्य । भावार्थः वन्दनशीलजनानां कामप्रदं शिवपुत्रं तीव्रानन्दसमूहादुन्नतानतं सिन्धुरस्याननमेवाननं वन्दे । हिन्दी अनुवाद गणेश की वन्दना करता हूं । कैसै गणेश? वन्दारुमन्दारः - वन्दन करनेवाले जनों के कामनाओं को स्वर्गवृक्ष मन्दार कि तरह पूर्ति करने