Dhātukārikā - bhvādigaṇaḥ



॥ श्रीः शुभमस्तु ॥
This page is a work in progress until this message appears here. The whole work has about 700 shlokas and they are being uploaded after correcting typographical errors available in the two versions available.

॥ धातुकारिका प्रारम्भः ॥

नत्वा नटेशं निखिलवर्णाम्नायादिदेशिकाम् ।
श्रीकण्ठस्तनुते धातुकारिकां बालरञ्जनीम् ॥१॥

कोशमामरसिंहं च बोधार्थं नामलिङ्गयोः ।
धर्माधिकारि श्रीचक्रवर्त्यय्यङ्गार्यनिर्मिताम् ॥२॥

सुबन्तशब्दभेदानां बोधिनीं शब्दकारिकाम् ।
अभ्यस्य तद्वद्धातूनामपि बोधार्थमिच्छताम् ॥३॥

दुरध्ययत्वात्प्राचीनधातुपाठस्य सीदताम् ।
कौतुकाद्याचमानानां बालानां परितुष्टये ॥४॥

प्राग्धातुपाठ एवाद्य काव्यमार्गे चरिष्णुभिः ।
सुपठाभिस्सुबोधाभिः कारिकाभिर्यथाक्रमम् ॥५॥

सङ्गृह्यतेऽत्र सुधियो गर्हन्तां मां स्तुवन्तु वा ।
भ्वाद्यादयो दशगणास्तथा कण्ड्वादिधातवः ॥६॥

आत्मनेपदिनश्चात्र परस्मैपदिनस्तथा ।
द्वयवन्तस्तथा सेटोऽनिटश्चामिन्मितोऽखिलाः ॥७॥

अनुबन्धनिबन्धाश्च तत्तत्कार्यप्रयोजनाः ।
निरूप्यन्तेऽर्थनिर्देशो भैमसेनोऽपि दुर्गमः ॥८॥

प्राचां व्याख्याक्रमेणैव विशदीक्रियते मनाक् ।
पद्ये यद्यपि वाक्यानां पद्यान्तरगतैः पदैः ॥९॥

अन्वयो नेति नियमो न क्वापि परिदृश्यते ॥१०॥

तथाऽपि कविभिः काव्ये बुभुस्तुक्लेशशान्तये ।
नियमेस्मिन्नाश्रितेपि तत्र तत्र क्वचित्क्वचित् ॥११॥

दृष्टत्वात् व्यतिरेकस्याप्यनुवादवशादिह ।
तत्र तत्र श्लोकगानां वाक्यानामन्वये क्वचित् ॥१२॥

सह्यं पौर्वापर्यकृतं वैषम्यं हृदयालुभिः ।
तत्रान्वयासंशयार्थं त्वन्ताथादि न पूर्वभाक् ॥१३॥

इत्येषोऽमरसिंहस्य नियमोऽङ्गीकृतो मया ।
सत्तायां भूस्सचोदात्तोऽथानुदात्तानुबन्धकाः ॥१४॥

एधादयश्च कथ्यन्ताः षट्त्रिंशद्धातवः क्रमात् ।
वृद्धावेधस्स्मृतस्स्पर्धस्सङ्घर्षेऽयं त्वकर्मकः ॥१५॥

पराभिभवनेच्छात्र सङ्घर्ष इति कथ्यते ।
परस्य कर्मणो धातोरर्थेनैवोपसङ्ग्रहात् ॥१६॥

गाधृ ग्रन्थे प्रतिष्ठायां लिप्सायामपि कथ्यते ।
विलोडने बाधृ तच्च प्रतिघातोऽभिधीयते ॥१७॥

याच्ञाशीरुपतापेष्वप्यैश्वर्ये नाथृनाधृ च ।
आशिष्येवानुदात्तेत्को नाथतिः प्रणिगद्यते ॥१८॥

दधस्स्मृतो धारणेऽथ स्कुदिराप्रवणे मतः ।
इहाप्रवणशब्देनोत्प्लवनोद्धरणे स्मृते ॥१९॥

श्विदिश्श्वैत्येऽकर्मकोऽयं वदिस्स्तुत्यभिवादयोः ।
भदिस्सुखे च कल्याणे मदिर्मोदे मदे स्तुतौ ॥२०॥

स्वप्ने कान्तौ गतौ चाथ किञ्चिच्चलनकर्मणि ।
स्पदि क्लिदिस्तु सम्प्रोक्तश्शोकात्मपरिदेवने ॥२१॥

अतः सकर्मकः प्रोक्तो मुदो हर्षेऽभिधीयते ।
ददो दानेष्वदस्वर्दावथास्वादनकर्मणि ॥२२॥

सकर्मकोऽनुभूतौ स्याद्रुचौ स्वदिरकर्मकः ।
मानक्रीडनयोरुर्दः कुर्दः खुर्दश्च गुर्दतिः ॥२३॥

गुदश्च चत्वार एते क्रीडायामेव हि स्मृताः ।
षूदस्स्यात्क्षरणे ह्रादोऽव्यक्ते शब्दे निगद्यते ॥२४॥

हलादीस्सुखेऽव्यक्तशब्दे स्वाद आस्वादने स्मृतः ॥२५॥

पर्दस्स्यात्कुस्तिते शब्दे शब्दो गुदरवस्त्वसौ ।
यतीः प्रयत्ने युतृ च भासने जुतृ च स्मृतः ॥२६॥

याचने विथृ वेथृ स्याच्छ्रथि शैथिल्य ईरितः।
कौटिल्ये तु ग्रथिः कत्थश्श्लाघायामभिधीयते ॥२७॥

अष्टात्रिंशत्तवर्गीयवर्णान्ता अथ धातवः ।
परस्मैपदभाजोऽत्र निगद्यन्ते यथाक्रमम् ॥२८॥

अतस्सातत्यगमने चिती संज्ञान उच्चते ।
आसेचने च्युतिर्प्रोक्तस्तच्चार्द्रीकरणं स्मृतम् ॥२९॥

आङीषदर्थेऽभिव्याप्तावपि ज्ञेयश्च्युतिर्ततः ।
क्षरणेऽयं यकारेण रहितोऽपि सतां मतः ॥३०॥

मन्थो विलोडनेऽथ स्युः कुथिः पुथिलुथी मथिः ।
सङ्क्लेशनेऽथ हिंसायामथ गत्यां षिधस्स्मृतः ॥३१॥

शास्त्रे माङ्गल्ये च षिधूः शास्त्रं शासनमुच्यते ।
खादृ प्रोक्तो भक्षणेऽथ खदस्स्यात्स्थैर्यहिंसयोः ॥३२॥

भक्षणं चाऽकर्मकोऽयं स्थैर्येऽथ बद ईरितः ।
स्थैर्ये गदस्तु व्यक्तोक्तौ स्याद्रदस्तु विलेखने ॥३३॥

विलेखनं भेदनं स्याच्छब्देऽव्यक्ते णदस्समृतः ।
गतियाचनयोरर्दश्शब्देनर्दतिगर्दती ॥३४॥

हिंसायां तर्दति कर्दः कुत्सिते शब्द इष्यते ।
विवक्षितः कुत्सितोऽत्र शब्दः कौक्षो हि तद्विदाम् ॥३५॥

प्रोक्तः खर्दो दन्दशूके दंशहिंसादिरूपिणि ।
दन्दशूकक्रियेष्टात्र दन्दशूकपदेन तु ॥३६॥

बन्धनेऽतिरदिश्चेदिः परमैश्वर्य इष्यते ॥३७॥

बिदिस्त्ववयवे वक्त्रैकदेशे गडिरुच्यते ।
अत्यादयोऽत्र पञ्चैते तिङो न विषया इति ॥३८॥

मन्यते काश्यपोऽन्ये तु वाञ्छन्त्येषां तिङोऽपि च ।
कुत्सायां णिदिराख्यातस्समृद्धौ टु नदिस्स्मृतः ॥३९॥

आह्लादने चदिः प्रोक्तश्चेष्टायां त्रदिरुच्यते ।
कदिः क्रदिः क्लदिश्चोक्ता आह्वाने रोदनेऽपि च ॥४०॥

परिदेवन आख्यातः क्लिदिश्शुन्धस्तु शोधने ।
अथोच्यन्ते धातवो द्विचत्वारिंशद्यथाक्रमम् ॥४१॥

कवर्गीयाक्षरान्तास्तेत्वनुदात्तानुबन्धकाः।
शीकृ स्यात्सेचनेऽयं तु तालव्यादिरमुं परे॥४२॥
दन्त्यादिमाहुर्लोकृ स्याद्दर्शने श्लोकृ कथ्यते।
सङ्घाते स्यात्स तु ग्रन्थो ग्रथ्यमानक्रियाऽथवा॥४३॥
ग्रथितुर्वा क्रियेष्टाद्येऽकर्मकस्स्याद्वितीयके।
सकर्मकोऽथ द्रेकृ स्याद्ध्रेकृ चोत्साहकर्मणि॥४४॥
शब्दे चोत्साह आख्यातो वृद्धिरौन्नत्यमेव च।
शङ्कायां रेकृ सम्प्रोक्तस्सेकृस्रेकृस्रकिश्श्रकिः॥४५॥
श्लकिश्च स्युर्गतावत्र त्रयो दन्त्यादयस्स्मृताः।
तालव्याद्यावुभौ स्यातां शङ्कायां कथ्यते शकिः॥४६॥
अकिस्तु लक्षणेऽथ स्याद्वकिः कौटिल्यकर्मणि।
मकिस्तु मण्डने लौल्ये कको लौल्यं तु चापलम्॥४७॥
गर्वश्चाथ कुकः प्रोक्तो वृकश्चादानकर्मणि।
चकस्तृप्तौ प्रतीघाते चाथगत्यां तु कङ्कतिः॥४८॥
वकि-श्श्वकि-स्त्रकि-र्ढौकृ-त्रौकृ-ष्वष्कश्च-वस्कतिः।
मस्क-ष्टिकृ-तथा टीकृ-तिकृ-तीकृ-रघि-र्लघिः॥४९॥
तृतीयस्त्विह दन्त्यादिरिति केचित्प्रचक्षते।
लघि-र्भुक्तिनिवृत्तावाप्यघि-र्वघि-मघीत्रयः॥५०॥
गत्याक्षेपे स्मृता निन्दाक्षेपोऽत्र परिकीर्तितः।
अन्ये प्राहुर्गतौ गत्यारम्भे चेति मघिस्तु सः॥५१॥
कैतवे वाथ सामर्थ्ये द्राघृ-राघृ लाघृ च।
केचित्पेठुर्ध्राघृधातुमपि चात्रैव दण्डके॥५२॥
आयामे द्राघतिस्स्यादायामो दैर्घ्यमुच्यते।
श्लाघृ-स्यात्कत्थनेऽथात्र परस्मैपदिधातवः॥५३॥
पञ्चाशदभिधीयन्ते कवर्गीयाक्षरान्तिमाः।
नीचैर्गतौ फक्कतिस्स्याद्व्यवहारोऽसतामिह॥५४॥
स्यातां मन्दगतिश्चापि नीचैर्गतिपदोदितौ।
तकस्स्याद्धसने कृच्छ्रजीवने तकिरुच्चते॥५५॥
बुक्कस्स्याद्भषणे स्वानश्शुनो भषणमुच्यते।
कखतिर्धातुरिह तु प्रोक्तो हसनकर्मणि॥५६॥
ओखृधातू राखृ लाखृ द्राखृ ध्राखृ शोषणे।
अलमर्थे चाथ शाखृ-श्लाखृ- व्याप्तिकर्मणि॥५७॥
उखोखी वखतिश्चाथ वखिर्मखमखी णखः।
णखी-रख-रखी चाथ तथा लखलखी इखः॥५८॥
इखिरीखिर्वल्ग रगी लगिश्चागिर्वगिर्मगिः।
तगिस्त्वगिश्श्रगि-श्चाथ श्लगि-श्चेगी रिगिर्लिगिः॥५९॥
गतावष्टाविंशतिः स्युः खान्ताः पञ्चदशात्र च।
गान्तास्त्रयोदशात्रान्ये पठन्ति चतुरोऽधिकम्॥६०॥
रिखं-त्रखं त्रखि-शिखी अपि खान्तेषु सूरयः।
त्वगि स्यात्कम्पने चाथ युगि-र्जुगि-बगी अपि॥६१॥
वर्जनेऽथ घघः प्रोक्तो हसने मण्डने मघिः।
आघ्राणे शङ्घतिरथ चवर्गीयाऽक्षरान्तिमाः॥६२॥
एकविंशतिरुच्यन्ते ह्यनुदात्तानुबन्धकाः।
वर्चो दीप्तावथ प्रोक्तष्षचस्सेचनसेवयोः॥६३॥
लोचृ स्याद्दर्शने वाचि व्यक्तायां शचति स्मृतः।
श्वच-श्वची गतौ प्रोक्तौ कचो बन्धनकर्मणि॥६४॥
दीप्तिबन्धनयोः प्रोक्तो कचिकाची उभावपि।
मचो मुचि कल्कने स्याद्दम्भश्शाठ्यं कल्कनम्॥६५॥
अन्ये कत्थनमित्याहुर्मचिर्धारणपूजयोः।
उच्छ्राये चाप्यथ व्यक्तीकरणे वचिरिष्यते॥६६॥
ष्टुचः प्रसादे-ऋजतिर्गतौ स्थानेऽर्जनेपि च।
उपार्जनेऽप्यथ ऋजिभृजी भर्जनकर्मणि॥६७॥
एजृभ्रेजभ्राजृ दीप्तावीजतिर्गतिकुत्सयोः।
परस्मैपदिनः प्रोक्ता व्रज्यन्ताश्च द्विसप्ततिः॥६८॥
शुचश्शोके-कुचश्शब्दे तारे क्रुञ्चतिकुञ्चती।
कौटिल्याल्पीभावयोस्स्याल्लुञ्चोऽपनयनेऽञ्चु तु॥६९॥
गति-पूजनयोर्वञ्चुश्चञ्चुस्तञ्चुरपि क्रमात्।
त्वञ्चुम्रुञ्चु-म्लुञ्चुरपि गत्यर्थेऽष्टौ म्रुचुर्म्लुचुः॥७०॥
ग्रचु-र्ग्लुचुः कुजु-खुजूस्सम्प्रोक्तास्स्तेयकर्मणि।
गतौ ग्लुञ्चुश्च षस्जश्च सज्जतिश्चात्मनेपदि॥७१॥
गुजिस्त्वव्यक्तशब्दे स्यात्पूजायामर्चतिस्स्मृतः।
ल्मेच्छोऽव्यक्ते शब्द उक्तोऽपशब्दोऽप्यस्फु टोऽपि सः॥७२॥
लछो-लाछि र्लक्षणे स्यादिच्छायां वाछिरिष्यते।
आयामे स्यादाछिरथ लज्जायां ह्री ईरितः॥७३॥
हुर्छा प्रोक्तस्तु कौटिल्ये कौटिल्यमपसर्पणम्।
मैत्रेय आह मुर्छास्तु समुच्छ्राये मोहने॥७४॥
स्फुर्छा स्याद्विस्तृतौ युच्छः प्रमादेऽथोछिरुञ्छने।
उञ्छः कणश आदानं कणिशाद्यार्जनं सिलम्॥७५॥
इति यादवकोशस्य प्रामाण्यादुञ्छ उञ्छनम्।
उछीर्विवासे संप्रोक्तस्समाप्तिः प्रायशो ह्ययम्॥७६॥
विपूर्वस्स्याद्रम गतौ ध्रज-ध्रजि-धृजा-धृजिः।
ध्वज-ध्वजी-चाथ कूजोऽव्यक्ते शब्दे समीरितः॥७७॥
अर्ज-ष्षर्ज-श्चार्जने स्याग्गर्जश्शब्देऽथ तर्जतिः।
भर्त्सने स्यात्कर्जतिस्तु व्यथने खर्ज पूजने॥७८॥
अजो गतौ क्षेपणे पालने तेजतिस्स्मृतः।
खजो मन्थे खजिस्तु स्याद्गतिवैकल्य एजृ तु॥७९॥
कम्पनेऽथो टुओस्फूर्ज वज्रनिर्घोष ईरितः।
क्षिस्स्यात्क्षयेऽकर्मकोऽयमजन्तः परिकीर्तितः॥८०॥
ण्यर्थोऽस्यान्तर्भावितस्तु (अन्तर्हित णिजर्थोसौ) सकर्मक उदाहृतः।
अव्यक्तशब्दे क्षीजोऽयं कूजिना पठितुं क्षमः॥८१॥
लजो-लजिर्भर्जने स्याल्लाजो लाजिश्च भर्त्सने।
जजो-जजिश्च युद्धे स्याद्धिंसायां तुज उच्यते॥८२॥
पालने स्यात्तुजिश्शब्दे गजो गजिगृजौ गृजिः।
मुजो मुजिश्चात्र गजो मदने प्रकीर्तितः॥८३॥
गतौ वजव्रजौ प्रोक्तौ त्वनुदात्तानुबन्धकाः।
षट्त्रिंशच्छाडृपर्यन्ताष्टवर्गीयान्तिमा अथ॥८४॥
धातुष्वेतेष्वादिमस्स्सयादट्टोऽतिक्रमहिंसयोः।
दोपधोऽयं तोपधोऽयमिति केचित्प्रचक्षते॥८५॥
वेष्टस्स्याद्वेष्टने चेष्टश्चेष्टायां गोष्टलोष्टती।
सङ्घाते घट्ट चलने स्फुटो विकसने ह्यठिः॥८६॥
गतावथैकचर्यायां वठिर्मठिकठी उभौ।
शोके () चात्राध्यानं हि प्रोच्यते पालने मुठिः॥८७॥
विबाधायां हेठतिस्स्यादेठतिश्च हिडिस्तु सः।
गत्यनादरयोः प्रोक्तो हुडिस्सङ्घातकर्मणि॥८८॥
कुडिर्दाहे वण्डतिश्च मण्डतिश्च विभाजने।
परिभाषाण आख्यातो भडिस्तु परिभाषणम्॥८९॥
निन्दोपालम्भनं परिहासश्च कथ्यते।
पिडिस्सङ्घात उदितो मार्जने मुडिरुच्यते॥९०॥
न्यग्भावश्चापि शुद्धिश्च मार्जनं परिकीर्तितम्।
तुडिस्तु तोडने प्रोक्तस्तोडनं चेह कथ्यते॥९१॥
दारणं हिंसनं चाथ हुडिर्वरणकर्मणि।
स्वीकारो वरणं प्रोक्तं हरणं परे जगुः॥९२॥
चडिः कोपे रुजायां सङ्घाते शडिस्स्मृतः।
तडिस्तु ताडने प्रोक्तो गतौ पडिरुदाहृतः॥९३॥
कडिर्मदे खडिर्मन्थे हेडृ होडृ अनादरे।
आप्लव्यार्थे दाडृमतो सवशादिश्च सम्मतः॥९४॥
आप्लव्यन्त्वाप्लवो द्राडृ प्रोक्तो विशरणे तथा।
ध्राडृ चाथ भवेच्छाडृ श्लाघायां क्रमतस्ततः॥९५॥
अष्टवर्गीयान्तपूर्तेः परस्मैपदिनस्तु ते।
षडशीतिश्शौटृ गर्वे यौटृ बन्धे प्रकीर्तितः॥९६॥
उन्मादे म्रेटृ चम्रेडृम्लेटृडान्तो द्वितीयकः।
पठितोऽयं नाथतिवट्टान्तमध्येऽर्थसाम्यतः॥९७॥
वर्षावरणयोस्स्यात्तु कटे केचिच्चटे इति।
गतावटपटौ स्यातां रट स्स्यात्परिभाषणे॥९८॥
लटो बाल्ये विशरणरुजागत्यवसादने।
इष्यते शटतिः प्राज्ञैर्वेष्टने वट उच्यते॥९९॥
त्रासे किटखिटौ प्रोक्तावुभौ शिटषिटौ तु तौ।
अनादरे जटझटौ सङ्घाते भटतिर्भृतौ॥१००॥
उच्छ्राये तटतिः प्रोक्तः काङ्क्षायां खटतिस्स्मृतः।
णटो नृत्तौ पिटश्शब्दे सङ्घाते हटस्तु सः॥१०१॥
दीप्तौ षटस्त्ववयवे लुटस्तु स्याद्विलोडने।
डान्तोऽयमित्याहुरन्ये परप्रेष्ये चिटस्स्मृतः॥१०२॥
विटश्शब्दे बिटः प्रोक्त आक्रोशेऽसौ बशादिकः।
हिटेत्येके प्राहुरिटः किटश्चापि कटीर्गतौ॥१०३॥
तृतीयमिति तं प्राहुः केचिदन्येत्वि इति।
प्रश्लिष्य धातुद्वितयमन्यदाहुर्मनीषिणः॥१०४॥
भूषायां मडिराख्यातः कुटिर्वैकल्यकर्मणि।
पुडः प्रुडो मर्दने स्यादल्पीभावे चुडिस्स्मृतः॥१०५॥
खण्डने मुडिराख्यातः पुडि चेत्यपरे जगुः।
प्रोक्तौ रुटि लुटिस्स्तेय एके रुठिलुठी इति॥१०६॥
प्राहुः परे रुडिलुडी स्फुटिर्विशरणे स्मृतः।
इति तं ब्रुवते केचिद्व्यक्तवाचि पठस्समृतः॥१०७॥
वठस्स्थौल्ये समुदितो मठो मदनिवासयोः।
प्रोक्तो बुधैः कठः कृच्छ्रजीवने परिभाषणे॥१०८॥
रटः प्रोक्तो रठेत्येके हठः प्लुतिशठत्वयोः।
एके बलात्कार इति प्राहू रुठलुठावुठः॥१०९॥
त्रयस्स्युरुपघातार्था ऊठेत्येके वदन्ति हि।
संक्लेशने हिंसायां पिठस्स्यात्कैतवेपि च॥११०॥
शठश्शुठस्त्वत्र भवेत्प्रतिघाते शुठीति तु।
स्वामी प्राह तथैव स्यात्कुठिश्चात्रैव कर्मणि॥१११॥
प्रतिघातेऽपि चालस्ये लुठिस्स्याच्छोषणे शुठिः।
रुठिर्लुठिर्गतौ भावकरणे चुड्ड उच्यते॥११२॥
तद्भावकारणं प्राहुरभिप्रायस्य सूचनम्।
अड्डोऽभियोगे कार्कश्ये कड्डश्चुड्डादयस्त्रयः॥११३॥
भवन्ति डोपधाः क्रीडृ विहारे तुडृ तोडने।
प्राहुरेके तूडृ इति गतौ हुडृ हूडृ च॥११४॥
होडृ चापि भवेद्रौडृ लोडृ* त्वनादरणकर्मणि।
उन्मादे स्याद्रोडृ लोडृ ह्यडस्तूद्यमने स्मृतः॥११५॥

* लौडृ इति क्षीरस्वामी

विलासे लडतिः प्रोक्तो डलयोर्ललयोरपि।
ऐक्याल्ललेति धातुञ्च प्राहुस्स्वाम्यादयः परम्॥११६॥।
कडो मदे कडिरिति परे प्राहुर्गटिस्त्विह।
वक्त्रैकदेश आख्यातः पवर्गीयाक्षरान्तिमाः॥११७॥
स्तोभत्यन्ताश्चतुस्त्रिंशदनुदात्तानुबन्धकाः।
तिपृतेपृष्टिपृष्टेपृ क्षरणार्था इहादिमः॥११८॥
अनुदात्तस्स्मृतः क्षीरस्वामी बभ्राम सेडिति।
तेपृतिः कम्पने स्याद्ग्लेपृ दैन्य उदीरितः॥११९॥
टुवेपृ कम्पने प्रोक्तः केपृ ग्लेपृ गेपृ च।
चात्कम्पने गतौ चेति स्वामी सूत्रविभागतः॥१२०॥
मैत्रेयस्तु पठित्वा चमन्तरेणेह कम्पने।
इत्यपेक्षत इत्याह ग्लेपतिस्त्वर्थभेदतः॥१२१॥
पठ्यतेऽसौ पुनर्मेपृ रेपृ लेपृ गतौ स्मृताः।
त्रपूष्ष्यादिह लज्जायां कपिश्चलन उच्यते॥२२॥
रबिर्लबिरबिश्शब्देऽवस्रंसे लबिस्स्मृतः।
कबृ वर्णे ह्यधाष्टर्ये तु क्लीबृ क्षीबृ मदे स्मृतः॥१२३॥
रेभृ शब्दक्रियायां स्यात्कथ्थने शीभृ चीभृ च।
अभिः क्वचिद्रबिश्चापि पठ्यतेऽथ ष्टभिस्स्कभिः॥१२४॥
प्रतिबन्धे स्तम्भतेष्टं केचिदाहुर्निसर्गजम्।
भवेज्जभीर्जृभिर्गात्रविनामे शल्भकत्थने॥१२५॥
वल्भस्स्याद्भोजने दन्तोष्ठ्यादिर्धार्ष्ट्ये तु गल्भतिः।
श्रम्भुः प्रमादे दन्त्यादिस्तालव्यादिश्च सम्मतः॥१२६॥
ष्टुभुस्स्तम्बे ह्यथात्र स्युः परस्मैपदिधातवः।
एकचत्वारिंशदमी गुप्वाद्यास्सिम्भुपश्चिमाः॥१२७॥
रक्षणे स्याद्गुपूर्धूपस्सन्तापे जपजल्पती।
व्यक्तायां वाचि जपतिर्मानसे प्रकीर्तितः॥१२८॥
सान्त्वने चपतिः प्रोक्तस्समवाये षपस्स्मृतः।
समवायस्तु सम्बन्धोऽवबोधस्सम्यगेव वा॥१२९॥
व्यक्तायां वाचि रपतिर्लपतिश्च प्रकीर्तितः।
गतौ चुपस्तु मन्दायां हिंसायामथ कीर्तिताः॥१३०॥
तुपतुम्पौ त्रुपत्रुम्पौ तुपत्रुम्फौ त्रुफस्ततः।
त्रुम्फश्चैषु द्वावाद्यौ पञ्चमाष्षष्ठ एव च॥१३१॥
नीरेफास्स्युस्सरेफास्तु परे चत्वार आदिमाः।
प्रथमान्ता द्वितीयान्ताः परेऽष्टौ साव ईरिताः॥१३२॥
पर्पो रफरफी अर्बः पर्बो लर्बश्च बर्बतिः।
मर्बः कर्बः खर्बगर्बौ शर्बषर्बौ चर्बतिः॥१३३॥
गतावाद्योऽत्रादिमान्तो द्वितीयान्तावुभौ ततः।
एकादश तृतीयान्तास्ततो मुक्त्वा द्वितीयकम्॥१३४॥
तृतीयं स्मृतास्सर्वे सरेफा अत्र दण्डके।
आच्छादने कुबिः प्रोक्तोऽर्दने लुबितुबी मतौ॥१३५॥
चुबिस्स्याद्वस्त्रसंयोगे षृभु षृम्भु तु हिंसने।
षिभु षिम्भु इति परे शुभश्शुम्भश्च भाषणे॥१३६॥
इमौ भासन इत्येके हिंसायामिति चापरे।
अथानुनासिकान्तास्स्युरनुदात्तानुबन्धकाः॥१३७॥
कम्वन्ता दशघिण्याद्या ग्रहणे स्याद् घिणिर्घुणिः।
घृणिश्चाथ घुणो घूर्णो भ्रमणे परिकीर्तितौ॥१३८॥
परस्मैपदिनावेतौ तुदादौ तु भविष्यतः।
व्यवहारे स्तुतौ चापि पणस्स्यात्पन स्तुतौ॥१३९॥
भामः क्रोधे क्षमूष् तु स्यात्सहनेऽथ भवेत्कमुः।
कान्ताविच्छात्र कान्तिस्स्यात्परस्मैपदिनस्ततः॥१४०॥
क्रम्यन्तास्त्रिंशदुच्यन्ते ह्यणो रणवणौ भणः।
मणः कणश्च क्वणति व्रणति भ्रणति ध्वणाः॥१४१॥
शब्दार्थास्स्युर्धणोऽप्यत्र बुधैः कैश्चित्प्रपठ्यते।
इहापनयने त्वोणृ शोणृ वर्णे गतावपि॥१४२॥
सङ्घाते शोणृ तु भवेच्छ्लोणृ चोक्ता अमी त्रयः।
तालव्योष्मादयश्शोणादयः पैणृ गतौ तथा॥१४३॥
प्रेरणे श्लेषणे स्यात्क्वचित्पैण्रिति पठ्यते।
ध्रणश्शब्दे ह्ययं नान्त उपदेशे स्मृतो बुधैः॥१४४॥
केचिद्बणेत्यपि कनीर्दीप्तिकान्तिगतिष्वथ।
ष्टनो वनश्च शब्दे स्यात्सम्भक्तौ तु वनष्षणः॥१४५॥
अमो गत्यादिषु गतौ द्रमो हम्मश्च मीमृ च।
मीमृ शब्दे चाथ चमुश्छमुर्जमुझमू तथा॥१४६॥
अदने स्युर्जिमिं केचित्पठन्त्यथ भवेत्क्रमुः।
पादविक्षेपेऽथ रेवत्यन्ता अयतिपूर्वकाः॥१४७॥
सप्तत्रिंशदुदीर्यन्ते ह्यनुदात्तानुबन्धकाः।
गतावयो वयपयौ मयश्चयतयौ णयः॥१४८॥
दाने गतौ रक्षणे हिंसनादानयोर्दयः।
आदानं ग्रहणं प्रोक्तं कथ्यतेऽथ गतौ रयः॥१४९॥
ऊयीस्स्यात्तन्तुसन्ताने पूयीर्विशरणे तता।
दुर्गन्धे चाथ शब्दे स्यात्क्नूयी रुन्दे स्मृतः॥१५०॥
क्ष्मायीर्विधूनेन वृद्धौ स्फाय्योप्यायी कथ्यते।
सन्ताने पालने तायृ प्रबन्धस्स तु गद्यते॥१५१॥
शलस्संवरणे चैव चलने प्रकीर्तितः।
वलवल्लौ संवरणे स्यातां सञ्चरणेऽपि च॥१५२॥
मलो मल्लो धारणे स्यात् भलभल्लौ तु हिंसने।
आदानकर्मणि परिभाषणे प्रकीर्तितौ॥१५३॥
कलश्शब्दे संख्यानेऽव्यक्ते शब्दे तु कल्लतिः।
स्वामीत्वशब्द इत्याह तूष्णींभावस्स इत्यपि॥१५४॥
देवने तेवृ देवृ स्यात् सवने षेवृ गेवृ च।
ग्लेवृ-पेवृ-म्लेवृ-मेवृ-चात्रान्यस्सेवतिस्त्वयम्॥१५५॥
ब्रुवते सोपदेशोऽपीत्येवं न्यासकृदादयः।
तदेतद्वचनं भाष्यविरुद्धमिति मन्महे॥१५६॥
प्राहुरेके शेवृ-खेवृ-केव्रित्यपि बुधोत्तमाः।
रेवृ तु स्यात्प्लवगतौ सा तु प्लुतगतिर्मता॥१५७॥
परस्मैपदिनोऽवान्ता नवतिस्स्युष्षडुत्तरा।
बन्धने मव्यतिस्सूर्क्ष्य-ईर्क्ष्य ईर्ष्यश्च ते त्रयः॥१५८॥
ईर्ष्यार्थास्स्युर्हयो गत्यां शुच्योऽभिषवः उच्यते
सोमाङ्गानां प्रशिथिलीकरणं स्ननमेव वा॥१५९॥
सन्धानं वा सुरायाश्चाभिषवः परिकीर्तितः।
एके चुच्य इति प्राहुर्हर्यः कान्तौ गतौ स्मृतः॥१६०॥
भूषणे वारणे चापि पर्याप्तौ चाल ईरितः।
स्वरिते दयमित्येके फला विशरणे ञीत्॥१६१॥
मील-श्मीलौ-स्मीलतिश्च क्ष्मीलतिश्च निमषणे।
निमेषणं तु सङ्कोचस्तालव्यादिर्द्वितीयकः॥१६२॥
दन्त्यादिश्च तृतीयस्स्यात्प्रतिष्टम्भेऽथ पीलतिः।
प्रतिष्टम्भो रोधनं स्यान्नीलो वर्णे प्रकीर्तितः॥१६३॥
शीलः समाधौ विज्ञेयः कीलो बन्धन ईरितः।
कूल आवरणे शूलो रुजासङ्घोषयो स्स्मृतः॥१६४॥
भवेत्तूलस्तु निष्कर्षे तु निष्कोषणं स्मृतम्।
अन्तर्गतस्य तच्चापि बहिर्निस्सारणं मतम्॥१६५॥
सङ्घाते पूल आख्यातः प्रतिष्ठायां तु मूलतिः।
निष्पत्तौ फलतिर्भावकरणे चुल्ल इष्यते॥१६६॥
तात्पर्याविष्कृतिर्भावकरणं बुधसम्मतम्।
फुल्लो विकासे शैथिल्ये चिल्लो भावकृतावपि॥१६७॥
गतौ तिलः स्यात्तिल्लेति केचिदाहुः परं बुधाः।
वेलृ-चेलृ-तथा केलृ-खेलृ-क्ष्वेलृ वेल्लतिः॥१६८॥
चलने पञ्च ऋदितष्षष्ठो लोपध उच्यते।
वेलृ-फेलृ-तथा शेलृ गतौ पेल्रिति केचन॥१६९॥
स्खलस्संचलने प्रोक्तस्संचये खल ईरितः।
गलोऽदने षलो गत्यां दलो विशरणे स्मृतः॥१७०॥
श्वलश्वल्लावाशुगतौ कोलृ-खोरृ-तथागतेः।
प्रतिघाते धोरृ गतिचातुर्ये परिकीर्तितः॥१७१॥
त्सरश्छद्मगतौ प्रोक्तो हूर्छने क्मर उच्यते।
अभ्र-वभ्रौमभ्र-चरौ गत्यर्थाश्चरतिस्तु सः॥१७२॥
भक्षणेऽपि भवेदत्र ष्ठिवुर्निरसनक्रियः।
अस्य द्वितीयः स्थः ष्ठो वेत्येवं वदति वृत्तिकृत्॥१७३॥
जिर्जयेऽयमजन्तेषु युज्यते पठितुं जयः।
उत्कर्षप्राप्तिराख्यातोऽकर्मकोऽयमिहेर्यते॥१७४॥
प्राणानां धारणे जीवः पीवमीवावुभौ तथा।
तीवनीवौ स्मृतौ स्थौल्ये क्षीवुक्षेवू नरासने॥१७५॥
उर्वीस्तुर्विस्तथा थुर्वी र्दुर्वीर्धुर्वीश्च हिंसने।
गुर्वीरुद्यमने मुर्वीर्बन्धने परिकीर्तितः॥१७६॥
पूरणे पुर्वपर्वौ मर्वश्चाथाऽदने स्मृतः।
चर्वो भर्वस्तु हिंसायां कर्वः खर्वश्च गर्वतिः॥१७७॥
दर्पेथार्वश्शर्व-षर्वौ हिंसायां परिकीर्तिताः।
इविर्व्याप्तौ पिविमिविणिवयस्सेचने स्मृताः॥१७८॥
मूर्धन्योष्मादिरित्येके तृतीयमिह चक्षते।
अन्योऽर्थस्सेवन इति तरङ्गिण्यामुदाहृतः॥१७९॥
हिवि-र्दिविर्धिविजिवी प्रीणनार्थाः प्रकीर्तिताः।
रिवी-रवि-र्धविश्चैव गत्यर्थाः कथिता इमे॥१८०॥
हिंसाकरणयोश्च स्यात्कृविश्चात्तु गतौ स्मृतः।
स्वादौ पठ्यते सोऽयं बन्धने मव इष्यते॥१८१॥

* स्यात् कृविः चात् तु

अवस्स्याद्रक्षणे गत्यां कान्तिप्रीत्योश्च तर्पणे।
तथावगमने चैव प्रवेशे श्रवणेऽपि च॥१८२॥
स्वाम्यर्थयाचने चैव क्रियेच्छायां तथैव च।
दीप्ताववाप्तौ तथालिङ्गने हिंसनेऽपि च॥१८३॥
आदाने चैव भागे वृद्धौ परिकीर्तितः।
धावुस्तु स्याद्गतौ शुद्धौ स्वरितेदयमिष्यते॥१८४॥
एकपञ्चाशदूष्मान्ता आत्मनेपदिनस्ततः।
सन्दीपने क्लेशने जीवने धुक्षधिक्षती॥१८५॥
वृक्षस्स्याद्वरणे शिक्षो विद्योपादानकर्मणि।
लाभेऽलाभे भिक्षायां भिक्षस्स्यात्क्लेशतिस्तु सः॥१८६॥
अव्यक्तायां वाचि भवेद्दुर्ग इत्याह बाधने।
वृद्धौ शीघ्रार्थे दक्षो दीक्षो मौण्ड्येज्ययो स्तथा॥१८७॥
व्रतादेशोपनयननियमेषु प्रकीर्तितः।


ईक्षो दर्शने आख्यात ईषस्स्याद्गतिहिंसयोः

दर्शने चापि भाषस्तु व्यक्तायां वाचि कथ्यते॥१८८॥
दर्शने चापि भाषस्तु व्यक्तायां वाचि कथ्यते।
वर्षस्स्यात्स्नेहने दन्त्योष्ठ्यादिर्गेषृ तु कथ्यते॥॥१८९॥
अन्विच्छायां सात्रभवेदन्वेषणमिहापरे।
ग्लेष्रित्याहुः पेषृ भवेत्प्रयत्ने जेषृ-णेषृ च॥१९०॥
एषृ-प्रेषृ- गत्यार्था रेषृ-ह्रेषृ हेषृ च।
अव्यक्ते शब्द आद्योऽत्र वृकशब्दे प्रकीर्तितः॥१९१॥
द्वावश्वशब्दे शब्दस्य कुत्सायां कासृ कीर्तितः।
भासृ-दीप्तौ-णासृ-रासृ शब्देऽथ कुटिलत्ववाक्॥१९२॥
णसो भवेद्भ्यस भय इच्छायां शसिराङ्युतः।
ग्रसु-र्ग्लसुश्चादने स्याच्चेष्टायामीह इष्यते॥१९३॥
बहि-र्महिश्च वृद्धौ स्याद्गताहिरुदाहृतः।
गर्हो गल्हश्च कुत्सायां प्राधान्ये बर्हबल्हती॥१९४॥
ओष्ठयादिमाविमौवर्हो वल्हश्च परिभाषणे।
हिंसाच्छादनयोश्चेमौ दन्त्योष्ठ्यादी प्रकीर्तितौ॥१९५॥
केचित्तु पूर्वयोर्दन्त्योष्ठ्यादित्वमनयोस्तु ते।
ओष्ठ्यादित्वमपि प्राहुर्गतौ ल्पिह उदाहृतः॥१९६॥
प्रयत्ने वेहृ-जेहृ-स्याब्दाहृ चैतेष्वपश्चिमः।
दन्त्योष्ठ्यादिः पश्चिमस्तु केवलोष्ठ्यादिरिष्यते॥१९७॥
ओष्ठ्यादी द्वावपीत्येके दन्त्योष्ठ्यादी इतीतरे।
गतौ जेहतिर्निद्रा क्षयेद्राहृ समीरितः॥१९८॥
प्राहुर्निक्षेप इत्येके काशृ दीप्तौ प्रकीर्तितः।
ऊहो वितर्के गाहूस्तु विलोडन उदाहृतः॥१९९॥
गृहू-र्ग्रहण आख्यातो ग्लहश्चाथ घुषिर्बुधैः।
उच्यते कान्तिकरणे केचिदत्र घषेत्यपि॥२००॥
पठन्त्यकारोपधकमुच्यन्तेऽर्हति पश्चिमाः।
परस्मैपदभाजोऽन्ये नवतिर्धातवः क्रमात्॥२०१॥
अविशब्दन आख्यातो घुषिर् तत्तु विशब्दनम्।
प्रतिज्ञानं ततोऽन्यस्मिन्नर्थ इत्येक उचिरे॥२०२॥
पेठुरन्ये शब्द इति व्याप्तावक्षूस्तनूकृतौ।
तक्षूस्त्वक्षूश्च सम्प्रोक्तस्सेचने तूक्ष इष्यते॥२०३॥
रक्षस्तु पालने णिक्षश्चम्बुने परिकीर्तितः।
तृक्ष-स्तृक्षश्च णक्षश्च गत्यर्थास्समुदीरिताः॥२०४॥
वक्षो-रोषे-भवेदेके सङ्घात इति चक्षते।
सङ्घाते मृक्ष आख्यातो म्रक्ष इत्येक ऊचिरे॥२०५॥
तक्षस्स्यात्त्वचने तत्तु भवेत्संवरणं त्वचः।
ग्रहणं चेह पक्षस्स्यात्परिग्रह इतीतरे॥२०६॥
सूर्क्षस्स्यादादरे सूर्क्षोऽनादरे स्यादिति क्वचित्।
अपपाठस्ततोऽवज्ञावहेलनमसूर्क्षणम्॥२०७॥
इत्युक्तममरेणापि काक्षिर्वाक्षिश्चमाङ्क्षतिः।
काङ्क्षायां स्युरथ द्राक्षिर्ध्राक्षिर्ध्वाक्षिश्च दारुणे॥२०८॥
वाशिते चाथ चूषस्स्यात्पाने तुष्टौ तु तूषतिः।
पूषो वृद्धौ भवेन्मूषस्स्तेये लूषतिरूषती॥२०९॥
भूषायां प्रसवे शूषोऽभ्यनुज्ञा प्रसवो ह्ययम्।
तालव्योष्मादिमो यूषो हिंसायां जूष स्मृतः॥२१०॥
अलङ्कारे भूष ऊषो रुजायामीष उञ्छने।
कषः खषश्शिषजषौ झषश्शषवषौ मषः॥२११॥
रुषो रिषश्च हिंसार्थास्तृतीयष्षष्ठ एव च।
तालव्योष्मादिमौ प्रोक्तौ दन्त्योष्ठ्यादिस्तु सप्तमः॥२१२॥
शिषोऽनुदात्तोऽत्र भवेद्भर्त्सने भष उच्यते।
भर्त्सनं श्वरवः प्रोक्तो उषो दाहे प्रकीर्तितः॥२१३॥
जिषुर्विषुर्मिषुश्चैव सेचने समुदीरिताः।
विषुस्स्यादनुदात्तोऽत्र पुषः पुष्टौ श्रिषुश्श्लिषुः॥२१४॥
प्रुषुः प्लुषुश्च दाहे स्युस्सेडयं श्लेषति स्मृतः।
दैवादिकस्य ग्रहणमनिट्केष्विति चक्षते॥२१५॥
कैयटाद्या न्यासकृता द्वयोर्ग्रहणमिष्यते।
अनिट्केष्विति यत्प्रोक्तं तत्तु स्वोक्तिविरोधतः॥२१६॥
ग्रन्थान्तरविरोधाच्चाप्युपेक्ष्यमिति मन्महे।
पृषुर्वृषुर्मृषुश्चैव सेचने परिकीर्तिताः॥२१७॥
सहने मृषुर्हिंसा क्लेशयोश्चापरौ मतौ।
घृषुस्सङ्घर्ष उदितोऽलीके हृषुरूदीरितः॥२१८॥
तुसह्रसौ ह्लसरसौ शब्दे संपरिकीर्तिताः।
लसस्स्याच्छ्लेषणे चैव क्रीडने चादने घस्लृ॥२१९॥
जर्जश्चर्चौ झर्झतिश्च परिभाषणहिंसयोः।
तर्जने समाख्याताः पिसृ पेसृ गतौ स्मृतौ॥२२०॥
हसेस्तु हसने प्रोक्तस्समाधौ णिश ईरितः।
तालव्योष्मान्तिमोऽयं स्यान्मिशश्च मशतिस्तथा॥२२१॥
शब्दे रोषकृते स्यात्तालव्योष्मान्तिमाविमौ।
दन्त्योष्ठ्यान्तश्शवस्तालव्योष्मादिर्गतिबोधकः॥२२२॥
तालव्योष्माद्यान्तिमोऽयं शशः प्लुतगतौ मतः।
हिंसायां शसुराख्यातो दन्त्योष्मान्तस्स सम्मतः॥२२३॥
शंसुस्स्तुताविमं दुर्गो दुर्गतावपि वाञ्छति।
परिकल्कन आख्यातश्चहश्शाठ्यं तु कल्कनम्॥२२४॥
पूजायां महतिः प्रोक्तो रहस्त्यागे रहिर्गतौ।
दृहो दृहिर्बृहबृही वृद्धौ सम्परिकीर्तिताः॥२२५॥
शब्दे बृंहतिः प्रोक्तो बृहि(बहि)रित्येक ऊचिरे।
तुहिर्दुहिरुहिर्-प्रोक्ता अर्दनेऽर्हस्तु पूजने॥२२६॥
अनुदात्तेत आख्याताः कृप्वन्ताः पञ्चविंशतिः।
द्युतो-दीप्तौ-श्विता वर्णे ञिमिदा स्नेहने स्मृतः॥२२७॥
ञिष्विदा स्नेहने चैव मोचने प्रकीर्तितः।
स्थाने मोचनशब्दस्य मोहनं केचिदूचिरे॥२२८॥
ञिक्ष्विदा चेत्येक आहुरथदीप्तौ रुचस्स्मृतः।
अभिप्रीतौ चाथ भवेद् घोटतिः परिवर्तने॥२२९॥
रुटो-लुट-लुठाश्चैते प्रतिघाते प्रकीर्तिताः।
शुभो दीप्तौ सञ्चलने क्षुभो भतु भौतु तौ॥२३०॥
हिंसायां कथितावाद्यस्त्वभावेऽपि भवेदिमौ।
क्र्यादौ दिवादौ गणे दृश्येते रूपभदेतः॥२३१॥
स्रंसुर्ध्वंसुश्च भ्रंसुश्चावस्रंसन उदीरिताः।
ध्वंसुर्गतौ चात्र पेठुर्भ्रंशुरित्यपि केचन॥२३२॥
अन्ये तृतीयमेवात्र तालव्यान्तं प्रचक्षते।
दिवादौ स्याद् भ्रशुर्भ्रंरधःपतन इत्यपि॥२३३॥
विश्वासे तु भवेत्स्रम्भुर्दन्त्यादिरयमुच्यते।
तालव्यादिर्गतस्सोऽयं प्रमादे कथितः पुरा॥२३४॥
वृतुस्स्याद्वर्तने वृद्धौ वृधुश्शब्दस्य कुत्सने।
शृधुः प्रस्रवणे स्यन्दूस्स्यात्सामर्थ्ये कृपूस्स्मृतः॥२३५॥
द्युतादेश्च वृतादेश्च समाप्तिद्योतनाय वृत्।
त्वरत्यन्ताष्वितोऽथ स्युरनुदात्तानुबन्धकाः॥२३६॥
त्रयोदशः स्युस्तत्रादौ चेष्टायां घट उच्यते।
भये सञ्चलनेऽपि स्याद्व्यथः प्रख्यानकर्मणि॥२३७॥
कथ्यते प्रथतिस्तद्वत्प्रसो विस्तार उच्यते।
म्रदो मर्दने आख्यातस्स्खदस्स्खदनकर्मणि॥२३८॥
विद्रावणं स्यात्स्खदनं क्षजिस्तु गतिदानयोः।
दक्षो गतौ हिंसने चाप्ययं प्राग्गतिशैघ्य्रयोः॥२३९॥
अनुदात्तेत्सु पठितो मित्त्वायानूद्यते पुनः।
क्रपः कृपायां गमने कन्दतिः क्रन्दतिः क्लदिः॥२४०॥
वैक्लब्यवाचकाः केचिद्वैकल्य इति चक्षते।
त्रीनप्यनिदितो नन्दी प्राह स्वामीदितः पुनः॥२४१॥
स्यातां कदि क्रदी अत्रेदितावनिदितौ क्रदः।
क्लदश्चेत्यपि मैत्रेयो विशेषं मन्यतेऽत्र सः॥२४२॥
कदिक्रद्योः क्लन्दतेश्च परस्मैपदिधातुषु।
आह्वाने रोदने चैव प्रोक्तानां पुनरत्र तु॥२४३॥
मित्त्वात्मनेपदार्थोऽयं पाठो ञीत्तु त्वरा इह।
सम्भ्रमे स्यादिह घटादयष्षित उदीरिताः॥२४४॥
फणान्ता अथ कथ्यन्ते परस्मैपदिनः क्रमात्।
ज्वरो रोगे सेचने तु गडो हेडस्तु वेष्टने॥२४५॥
अनुदात्तेत्सु यः पूर्वं गतौ हेडृ अनादरे।
इत्यसावेव मुक्तानुबन्धोऽर्थस्य प्रभेदतः॥२४६॥
अनूद्यतेऽत्र मित्त्वार्थं ज्वरादि गणतः पृथक्।
अनुवादं विहायैतन्मध्यभागेऽनुवादजात्॥२४७॥
सामर्थ्याद् भवति ह्यस्मात्परस्मैपदमत्र च।
वटो भटश्चापि भवेत्परिभाषणकर्मणि॥२४८॥
वट वष्टेन इत्येवं यौ प्राग्भटभृताविति।
उदितावत्र मित्त्वार्थं परिभाषण एव हि॥२४९॥
अनूद्येते नटो नृत्तावित्थमेव पुरोदितः।
बोध्यो विवेकस्तत्राऽयं भवेद्येषु नटा इति॥२५०॥
व्यपदेसस्तु वाक्यार्थाभिनयात्मकनाट्यकम्।
तत्पूर्वं पठितस्यार्थो यत्कारिषु भवेत्पुनः॥२५१॥
नर्तकव्यपदेशस्तत्पदार्थाभिनयात्मकम्।
नृत्यं यद्गात्रविक्षेपसू(मा?)त्ररूपं तु नृत्तकम्॥२५२॥
यत्तच्चापि घटादिस्थनटतेरर्थ ईरितः।
केचिद्घटादौ तु नटो नताविति पठन्ति हि॥२५३॥
गतावित्यपरेणोपदेशे भाष्यकृता पुनः।
नाटीति दीर्घस्य पाठाद्घटादौ नटतिस्त्वयम्॥२५४॥
स्यण्णोपदेश एवेति ब्रुवते सर्वसूरयः।
ष्टकस्तु प्रतिघाते स्याच्चकस्तृप्तौ प्रकीर्तितः॥२५५॥
यस्तृप्तौ प्रतिघाते पठितः प्राक्चको ह्यसौ।
अनूद्यते तृप्तिमात्रे मित्त्वहेतोर्गणे त्विह॥२५६॥
आत्मनेपदिनां मध्ये पठितस्य पुनस्त्विह।
अनुवादस्य सामर्थ्यात्परस्मैपदमेव हि॥२५७॥
कखे तु हसने प्रोक्तश्शङ्कायामुच्यते रगे।
लगे सङ्गे ह्रगे चैव ह्लगे चैव षगे ष्ठगे॥२५८॥
चत्वारस्स्युः संवरणे विशेषान्नोच्यते कगे।
अकोऽगश्च भवेतान्तौ कुटिलायां गतावुभौ॥२५९॥
गतौ कणरणौ स्यातामथ दाने कीर्तिताः।
चणश्शणश्श्रणश्चान्ये प्राहुश्शण गताविति॥२६०॥
श्रथ क्नथ क्रथा श्चैव क्लथो हिंसार्थकास्स्मृताः।
चनश्चाथ वनुश्चैव नोच्यते दीपने ज्वलः॥२६१॥
णार्थं पठिष्यमाणोऽयं मित्त्वायाऽनूद्यते त्विह।
ह्वलह्मलौ तु चलन आध्याने स्मृ प्रकीर्त्यते॥२६२॥
चिन्तायां वक्ष्यमाणस्याद्ध्याने मित्त्वाय सङ्ग्रहः।
औत्कण्ठ्यपूर्वं स्मरणमाध्यानमिह कथ्यते॥२६३॥
दॄ स्याद्भये क्य्रादिमध्ये पठ्यमानो विदारणे

अनूद्यतेयं मित्त्वार्थं परेन्यं धातुमूचिरे

नॄ स्यान्नयेयं क्य्रादिस्थो मित्त्वायानूद्यते त्विह।
श्रास्स्यात्पाके कृता त्वस्य श्रोतश्चानुकृतिस्त्वियम्॥२६४॥
ज्ञास्स्यान्मिन्मारणे चैव तोषणे निशामने।
निशामनं चाक्षुषं स्याज्ज्ञानमित्याह माधवः॥२६६॥
ज्ञानमात्रमिति त्वन्ये निशानेष्विति चापरः।
पाठोऽपि दृश्यते तच्च तीक्ष्णीकरणमीरितम्॥२६७॥
चलतिः कम्पने मिस्त्याच्छदस्स्यादूर्जने तु मित्।
स्वार्थण्यभावे मित्त्वार्थं चौरादिक इहोच्यते॥२६८॥
ऊर्जेरर्थे वृत्तिरस्य धातोर्बह्वर्थकत्वतः।
विलासे पठितः प्राङ्गिमत्स्याज्जिह्वोन्मथने लङः॥२६९॥
ज्ञापनं स्यादुन्मथनं मदीस्तु ग्लेपने तथा।
हर्षे मित्स्याद्दैन्यं हि ग्लेपनं समुदीरितम्॥।२७०॥
दैवादिकस्य मित्त्वार्थमनुवादोऽस्य कीर्तितः।
ध्वनश्शब्दे भाव्ययं हि मित्त्वायानूद्यते त्विह॥२७१॥
दलिर्वलिस्स्खलिरणी ध्वनिश्च त्रपिरेव च।
क्षपिश्चेति पपाठात्र भोजस्तत्र ध्वनो रणः॥२७२॥
दलतिर्वलतिश्चैव स्खलतिस्त्रपतिस्तथा।
गतास्तेषां णिचि ह्रस्वो भवति क्षैः क्षये पुनः॥२७३॥
निर्दिश्यते वक्ष्यमाणः पुगागमपुरस्सरः।
स्वनोऽवतंसने वक्ष्यमाणो मित्त्वार्थमुच्यते॥२७४॥
घटादयो मित इति गणसूत्रमिदं मतम्।
जनी जॄष् क्नसुरञ्जो मन्ताश्चेति त्वपरं मतम्॥२७५॥
केचिदत्र क्नसोस्स्थाने पठन्ति ष्णसुमेव हि।
ज्वल-ह्वल-ह्मलनमामुपसर्गसमागमम्॥२७६॥
विहाय वर्तमानानां विकल्पान्मित्त्वमिष्यते।
विनोपसर्गं मित्त्वं वा ग्लास्नावनुवमापि च॥२७७॥
कम्यमिचमां मित्त्वं शमोऽदर्शन ईरितम्।
मित्त्वं स्यादिह यमोऽपरिवेषणकर्मणि॥२७८॥
स्खदेरवपरिभ्यां परस्येह तु नेष्यते।
अपात्परस्यापि मित्त्वं न्यासकारो नहीच्छति॥२७९॥
फणो गतौ मिद्भवति घटादेः पूर्तयेऽत्र वृत्।
फणात्पूर्वं वृदित्येके वदन्तीह मनीषिणः॥२८०॥
स्वरितेद्राजृ दीप्तौ स्यादनुदात्तानुबन्धकाः।
भ्राजृ-भ्राशृ-भ्लाशृ-दीप्तौ त्रयोऽपि द्वित ईरिताः॥२८१॥
द्वितीयश्च-तृतीयश्च तालव्यान्तौ प्रकीर्तितौ।
स्यम्वादयः क्षरत्यन्ताः परस्मैपदिनो मताः॥२८२॥
स्यमुस्स्वनो ध्वनश्शब्दे षमश्च ष्टमतिस्तथा।
अवैकल्ये ज्वलो दीप्तौ चलः कमपन ईरितः॥२८३॥
जलस्स्याद्घातने तैक्ष्ण्यं घातनं प्रोच्यते बुधैः।
टलट्वलौ तु वैक्लव्ये ष्टलस्स्थाने प्रकीर्तितः॥२८४॥
विलेखने हलो गन्धे णलो बन्धन इत्यपि।
केचिदाहुः पलो गत्यां बलः प्राणनकर्मणि॥२८५॥
धान्यावरोधने स्यान्महत्त्वे पुल उच्यते।
बन्धुष्वपि संस्त्याने कुल उक्तोऽत्र बन्धुना॥२८६॥
तद्व्यापारो लक्ष्यते हि संस्त्यानं त्विह संहतिः।
शलो हुलः पतॢ स्युर्गातौ निष्पाककर्मणि॥२८७॥
क्वथे पथे तु गत्यां स्यान्मथे तु स्याद्विलोडने।
टु वमुस्स्यादुद्गिरणे भ्रमुस्तु चलने स्मृतः॥२८८॥

क्षरस्सञ्चलनेथ द्वावनुदात्तानुबन्धकौ

षहो मर्षण उक्तोथानिड्रमः क्रीडने स्मृतः

कसन्ता अथ सम्प्रोक्ताः परस्मैपदिनः क्रमात्।
षद्लनिट्को विशरणे गतावप्यवसादने॥२९०॥
शद्लनिट्कश्शातनेऽयं विशीर्णत्वस्य बोधकः।
निर्दिश्यते शातनं तु विषयत्वेन सम्प्रति॥२९१॥
आह्वाने रोदने चानिट् क्रुशोऽथ स्याद्धि कोचतिः।
सम्पर्चने कौटिल्ये प्रतिष्टम्भे विलेखने॥२९२॥
बुधोपगमनेऽथ स्याद् बीजजन्मन्यनिड्रुहः।
प्रादुर्भावे गत्यां स्यात्कसो वृत्करणं त्विह॥२९३॥
ज्वलादिगणसम्पूर्तिबोधनाय प्रकीर्ततम्।
गूहत्यन्ता अथोच्यन्ते स्वरितेतो ह्यनुक्रमात्॥२९४॥
हिक्कोऽव्यक्ते शब्द उक्तोऽञ्चुस्तु गत्यां याचने।
अचु इत्येक आहुश्चापरेऽचिरिति चक्षते॥२९५॥
याच्ञायां तु टु याचृ स्याद्रेटृ स्यात्परिभाषणे।
चते चदे याचनेऽथ पर्याप्तौ प्रोथृ कीर्त्यते॥२९६॥
मेधायां हिंसने चैव मिदृमेदृ कीर्तितौ।
थान्ताविमाविति स्वामी प्राह न्यासस्तु धान्तिमौ॥२९७॥
मेधृस्स्यात्सङ्गमे चाथ णिदृ-णेदृ कुत्सने।
सन्निकर्षे चाथ शृधुर्मृधुश्चोन्दन ईरितौ॥२९८॥
उन्दनं क्लेदनं प्रोक्तं बुधिर् बोधन ईरितः।
निशामने तूबुन्दिर स्याद्वेणृ स्याज्ज्ञानचिन्तयोः॥२९९॥
गतौ निशामने चैव वादित्रग्रहणेऽपि च।
नान्तोऽयमुपदेशेऽथ खनुस्स्यादवदारणे॥३००॥
आदानसंवरणयोश्चीवृ स्यादथ चायृ तु।
स्यात्पूजायां निशमने गतौ व्यय उदीरितः॥३०१॥
दाशृ दाने भेषृ भये गतावित्यपरे जगुः।
भ्रेषृ भ्लेषृ- गतौ स्यातामसो दीप्त्यां गतौ तथा॥३०२॥
आदाने चैष षान्तोऽपि स्पशस्स्पर्शनबाधयोः।
स्पर्शनं ग्रथनं प्रोक्तं लषः कान्तौ प्रकीर्तितः॥३०३॥
चषो भक्षण आख्यातो हिंसायां छषतिर्झषः।
आदानसंवरणयोर्भ्रक्षभ्लक्षावथादने॥३०४॥
भक्ष इत्याह मैत्रेयो दासृ दाने प्रकीर्तितः।
माहृ माने संवरणे गुहूरथङितः क्रमात्॥३०५॥
अजन्ताः पञ्च कथ्यन्ते श्रिञ् सेवायां प्रकीर्तितः।
भरणे भृञ् हृञ्हरणे धारणे धृञ्प्रकथ्यते॥३०६॥
णीञी प्रापणे भृञाद्यास्तु चत्वारोऽनिट ईरिताः।
परस्मैपदिनोऽजन्ताः कथ्यन्तेऽथानुपूर्व्यतः॥३०७॥
धेट् पाने स्यात्तथा ग्लै-म्लैर्हर्षक्षय उदीरितौ।
धातुक्षयोऽत्र विद्वद्भिर्हर्षक्षयपदोदितः॥३०८॥
द्यैस्स्यादथन्यक्करणे न्यक्कृतिस्तु तिरिस्क्रिया।
द्रैस्स्यात्स्वप्ने भवेद् ध्रै तु तृप्तौ ध्यै चिन्तने स्मृतः॥३०९॥
शब्दसङ्घातयोस्स्त्यैष्ट्यै खदने खैर्भवेदथ।
क्षै जै षै क्षये प्रोक्ताः कै गै शब्द ईरितौ॥३१०॥
शै श्रै पाके भवेत्पै वै शोषण कर्मणि।
ष्टै भवेद्वेष्टने ष्णै तु वेष्टने समुदीरितः॥३११॥
ष्णै-शोभायां चैष भवेदित्येके दैप्तु शोधने।
पाः पाने घ्रास्तु गन्धोपादाने सम्परिकीर्त्यते॥३१२॥
ध्मास्तु शब्देऽग्निसंयोगेऽपि सद्भिः प्रकीर्तितः।
इहाग्निसंयोग उक्तो मुखवाय्वग्नियोजनम्॥३१३॥
गतेर्निवृत्तौ ष्ठास्तु स्यान्मना आभ्यासे प्रकथ्यते।
दाण् दाने स्यात् ह्वृ कौटिल्ये स्वृ स्याच्छब्दोपतापयोः॥३१४॥
स्मृ चिन्तायां संवरणे द्वृ भवेत्सृ गतौ स्मृतः।
स्याद्गतिप्रापणयोः सेचने गृ घृ स्मृतः॥३१५॥
ध्वृ हूर्छने गतौ स्रुष्षुः प्रसवैश्वर्ययोस्स्मृतः।
प्रसवस्त्वभ्यनुज्ञानं श्रवणे श्रुः प्रकीर्त्यते॥३१६॥
ध्रु-स्थैर्ये स्याद्गतौ दुर्द्रुर्जिज्री अभिभवे स्मृतौ।
न्यूनीक्रिया वाथ न्यूनीभावो वाऽभिभवस्स्मृतः॥३१७॥
आद्ये सकर्मको ज्ञेयोऽपरस्मिन्नप्यकर्मकः।
धेडादयो धातवोऽमी अजन्ता अनिटस्स्मृताः॥३१८॥
डीङ्ङन्ता अथ कथ्यन्ते आत्मनेपदिनो ङितः।
स्मिङ्ङीषद्धसने शब्देऽव्यक्ते गुङ् परिकीर्त्यते॥३१९॥
गाङ् गतौ कुङ्घुङ्ङुङ्चैव ङुङ्च शब्दे प्रकीर्तितः।
अन्ये तूङ्कुङ्खुङ्च गुङ्च घुङ्च ङुङ्चेति चक्षते॥३२०॥
च्युङ्-ज्युङ्प्रुङ्प्लुङ्गतो ज्ञेयाः क्लुङित्येके पठन्ति हि।
रुङ् स्याद्गतौ रेषणे प्रोक्तं हिंसा हि रेषणम्॥३२१॥
धृङ् स्यादवध्वंसनेऽथ प्रणिदाने स्मृतो हि मेङ्।
प्रणिदानं विनिमयः प्रत्यर्पणमपीष्यते॥३२२॥
देङ् रक्षणे गतौ श्यैङ् स्यात्प्यैङ्वृद्धौ त्रैङ् तु पालने।
पवने पूङ् बन्धने मूङ्स्मिङ्ङाद्या अनिटो ह्यमी॥३२३॥
विहाय सा गतौ डीङ् स्यात्प्लवने तरणे तॄः।
परस्मैपद्यथाष्टौ स्युरनुदात्तानुबन्धकाः॥३२४॥
गुपो गोपन आख्यातो निशाने तिज उच्यते।
मानस्तु पूजने प्रोक्तो बधो बन्धनकर्मणि॥३२५॥
राभस्ये रभ आख्यातो डुलभष् प्राप्तिकर्मणि।
परिष्वङ्गे ष्वञ्ज उक्तः पुरीषोत्सर्जने हदः॥३२६॥
रभादयोऽमी चत्वारो धातवोऽनिट ईरिताः।
परस्मैपदिनोऽथ स्युर्धातवष्षोडशः क्रमात्॥३२७॥
ञीत्क्ष्विदाव्यक्तशब्दे स्यात्स्कन्दिर् स्याच्छोषणे गतौ।
यभो मैथुन आख्यातो णमुः प्रह्वत्वशब्दयोः॥३२८॥
गमॢ-सृपॢ-गतौ स्यातां यमस्तूपरमे स्मृतः।
तपस्सन्ताप आख्यातस्त्यजो हानौ प्रकीर्तितः॥३३०॥
षञ्जस्सङ्गेऽथ दंशस्तु दशने प्रेक्षणे दृशिर्।
कृषो विलेखने तत्त्वाकर्षणं समुदीरितम्॥३३१॥
भस्मीकरण आख्यातो दहस्स्यात्सेचने मिहः।
स्कन्दादयोऽमी अनिटश्चतुर्दश सम्मताः॥३३२॥
कितो निवासे रोगापनयने प्रकथ्यते।
प्रायेणायं विपूर्वस्स्यादथैकादशधातवः॥३३३॥
दानादयो वहत्यन्तास्स्वरितेतो यथाक्रमम्।
दानस्स्यात्खण्डने शानस्तेजने समुदाहृतः॥३३४॥
डुपचष्पाक उक्तोऽथ समवाये षचस्स्मृतः।
सेवायां स्यद्भजो रञ्जो राग आक्रोशने शपः॥३३५॥
त्विषो दीप्तौ यजो देवपूजायां सङ्गतेः कृतौ।
दानेऽथ डुवपो बीजसन्ताने परिकीर्तितः॥३३६॥
बीजसन्ताशब्देन क्षेत्रे विकिरणं तथा।
गर्भाधानं सम्प्रोक्तं छेदनेऽप्ययमिष्यते॥३३७॥
वहस्स्यात्प्रापणेऽनिट्काः पचाद्याष्षच वर्जिताः।
निवासे स्याद्वसोऽयं तु परस्मैपदभाजनम्॥३३८॥
वेञ्भवेत्तन्तुसन्ताने व्येञ्तु संवरणे स्मृतः।
ह्वेञ् स्पर्धायां शब्दे वसाद्या अनिटोऽखिलाः॥३३९॥
वेञादयस्त्रयौ ञित्त्वात्पदद्वितयभाजनम्।
परस्मैपदिनौ स्यातामथ द्वौ वदतिस्तयोः॥३४०॥
व्यक्तायां वाच्यथो वृद्धौ टुओश्वि स्स्याद्गतावपि।
यजादिगणसम्पूर्तेस्सूचनायेह वृत्कृतिः॥३४१॥
भ्वादिः स्यादाकृतिगणश्चुलुम्पाद्यास्ततोऽपरे।
सङ्गृहीता भवन्तीह ऋतस्सौत्रोऽपरस्स्मृतः॥३४२॥
बहवोऽयं जुगुप्सायां कृपायां चेति चापरे॥
इति भ्वादयः





Comments

Popular posts from this blog

Does sanAtana dharma (hinduism) "approve" of LGBTQ

Hindu view of food and drink: a critique - Part 2

वन्दे वन्दारुमन्दारमिन्दुभूषणनन्दनम् ।