Dhātukārikā - Rudhādigaṇaḥ


अथ रुधादयः॥
रुधिरावरणे प्रोक्तः स्वरितेत इतो नव।
इरितश्च भिदिर्तु स्याद्विदारण उदाहृतः॥१॥
छिदिर्तु द्वैधीकरणे रिचिर्तु स्याद्विरेचने।
विचिर्पृथग्भाव उक्तः क्षुदिर् सम्पेषणे मतः॥२॥
युजिर्योगेऽनिटः सप्त रुधाद्याः परिकीर्तिताः।
उच्छृदिर्देवने दीप्तावथानादरहिंसयोः॥३॥
उतृदिस्स्यात्कृतीः प्रोक्तश्छेदने वेष्टनेऽपि च।
परस्मैपद्ययमथो ञीदिन्धीर्दीप्तिबोधकः॥४॥
आत्मनेपदिनोऽथ स्युरित आरभ्य तु त्रयः।
खिदो दैन्ये विदः प्रोक्तो विचारे ह्यनिटाविमौ॥५॥
परस्मैपदिनोऽथ स्युर्दश द्वौ  यथाक्रमम्।
विशेषणे शिषॢ प्रोक्तः पिषॢ सञ्चूर्णने स्मृतः॥६॥
भञ्जो त्वामर्दने प्रोक्तः पालनाभ्यवहारयोः।
भुजोऽनिटोऽमी चत्वारः शिषाद्याः परिकीर्तिताः॥७॥
तृहो हिसिश्च हिंसायामुन्दी स्यात्क्लेदनार्थकः।
भवेदधाञ्जूर्व्यक्तौ  म्रक्षकान्त्योर्गतावपि॥८॥
तञ्चू सङ्कोचने प्रोक्त ओविजीश्चलने भये।
वृजीस्स्याद्वर्जनार्थोऽथ पृचीस्सम्पर्चनार्थकः॥९॥
रुधादिगणसम्पूर्तिद्योतनायात्र वृत्कृतिः॥

इति रुधादयः॥

Comments

Popular posts from this blog

"Climate Change" mega hoax

Govinda - A not-so-innocent story doing the rounds and its analysis

Does sanAtana dharma (hinduism) "approve" of LGBTQ