Posts

Kṛṣṇakarṇāmṛtam, with the Suvarṇacaśaka Ṭīkā of Pāpayallayya Sūri - 1

यन्नामीसरसीरुहान्तरपुटे भृङ्गायमाणो विधि     र्यद्वक्षः कमलाविलाससदन यच्चक्षुषी चेन्द्विनौ । यत्पादाब्जविनिःसृता सुरनदी शंभोः शिरोभूषणं     यन्नामस्मरणं धुनोति दुरितं पायात्स नः केशवः ।। चिन्तामणिर्जयति सोमगिरिर्गुरुर्मे     शिक्षागुरुश्च भगवाञ्शिखिपिच्छमौलिः । यत्पादकल्पतरुपल्लवशेखरेषु     लीलास्वयंवररसं लभते जयश्रीः ।। १ ।। चिन्तामणिरिति । चिन्तामणिर्नाम मन्त्रविशेषो यच्चिन्तनवशात्कृतार्थोऽभूत्कविः । स जयति सर्वोत्कर्षेण वर्तत इत्यर्थः । ननु ’गुरुं प्रकाशयेद्धीमान्न तु मन्त्रं प्रकाशयेत्’ इत्यादिना मन्त्रो न प्रकाश्यत इति चेन्न, ’तच्चिन्तामणिमन्त्रचिन्तनफले’ इत्यादिना श्रीहर्षेण प्रकाशितत्वात् स्मृतिस्तु साध्यमन्त्रविषया, न तु सिद्धमन्त्रविषयेति ज्ञेयम् । यद्वा चिन्तामणिरिति कश्चिद्योगी यत्संनिधाने कविना योगाभ्यासः कृतः । यद्वा चिन्तामणिरिति । श्रीकाकुलेश्वरानुग्रहवशान्निर्मलान्तरङ्गा काचिद्वारवनिता । यद्वा चिन्तामणिरिति सोमगिरेर्विशेषणम् । अस्मिन्पक्षे चिन्तामणिवदभीष्टार्थप्रदा सोमगिरिर्नाम काचिद्वारवनिता । यद्वा उक्तविशेषणविशिष्टः सो...

Kṛṣṇakarṇāmṛtam, with the Suvarṇacaśaka Ṭīkā of Pāpayallayya Sūri - Introduction

The following is an exhaustive introduction by Sundararama Iyer to Kṛṣṇakarṇāmṛta, published by Vani Vilas Press, Srirangam, Pub. 1911. INTRODUCTION.  The Krishna-Karnamrita is, as the name itself denotes, a book of living and passionful songs in praise of the beauties and glories of Sri Krishna's physical form and its limbs which fill the ear with the rapture of their melody. The Hindus have always delighted to fill their hearts and ears with the ineffable joy and sweetness of listening to the musician who can catch and convey to them the perfection of perfervid emotion and passionate love which filled the soul of the poet who, becoming immersed in the fathomless depths and drunk with the delicious nectar of his faith in the Lord, poured forth these marvellous and stirring strains so as to enable those who came after him to realise, as he himself had done, the wondrous and bewitching charm of the Lord's perfect form and person. There is only one other Indian "Song of Son...

Dhātukārikā - Juhotyādigaṇaḥ

॥ अथ जुहोत्यादयः ॥ हुर्दानादनयोः प्रोक्त आदाने चेति केचन। प्राहुर्भाष्ये प्रीणनेऽपीत्युक्तं दानपदस्य तु॥१॥ प्रेक्षपोऽर्थस्सोऽपि वै धा धारे च हविषामिति। स्वभावाल्लभ्यत इतश्चत्वारस्स्युरनुक्रमात्॥२॥ परस्मैपदिनोऽथ स्याञ्ञिभीर्भय उदाहृतः। ह्रीर्लज्जायां पालने च पूरणे चापि पॄ र्मतः॥३॥ ह्रस्वान्तोऽयमिति त्वन्ये धारणे पोषणे डुभृञ्। माङ्स्यान्माने च शब्दे च गताव हाङ् स्मृतस्ततः॥४॥ ओहाक्त्यागे भवेत्सोऽयं परस्मैपदभाजनम्। डुदाञ्दाने डुधाञ्तु स्याद्धारणे पोषणेऽपि च॥५॥ त्रयस्स्युस्स्वरितेतोऽथ णिजिर् शौचे च पोषणे। विजिर् भवेत्पृथग्बावे विषॢ व्याप्तौ प्रकीर्त्यते॥६॥ परस्मैपदिनोऽथ स्स्युश्छान्दसा आगणान्ततः। घृस्यात्क्षरणदीप्त्योर्हृ प्रसह्यकरणे स्मृतः॥७॥ गतावृसृ भवेतां द्वावृ भाषायामपि स्मृतः। भसो भर्त्सनदीप्त्योस्स्यात्किर्ज्ञाने त्वरणे तुरः॥८॥ धिषश्शब्देऽथ धान्ये स्याद्धनोऽथ जनने जनः। गास्स्यात्स्तुतौ जुहोत्याद्याः ससर्त्यन्ताश्च धातवः॥९॥ चिकेतिश्च जिगातिश्चाप्यनिट्स्स्युरिहोदिताः॥१०॥ ॥ इति जुहोत्यादयः ॥

Dhātukārikā - Adādigaṇaḥ

॥ अथ आदादयः ॥ परस्मैपदिनौ स्यातामथ द्वौ भक्षणे त्वदः। हिंसागत्योर्हनोऽनिट्कावुभावेतौ स्मृतावथ॥१॥ स्वरितेतश्च चत्वारो द्विषोऽप्रीतौ स्मृतो दुहः। प्रपूरणे दोहनं हि प्रपूरणमूदाहृतम्॥२॥ तथोपचय आख्यातो दिह आस्वादने लिहः। व्यक्तायां वाचि चक्षिङ् स्याद्दि्वषाद्याः पञ्च चानिटः॥३॥ दर्शनेऽपि च चक्षिङ् स्यादनुदात्तानुबन्धकाः। पृच्यन्तास्स्युः पञ्चदशेरस्तु स्याद्गतिकम्पयोः॥४॥ ईडस्स्तुतावथैश्वर्य ईशोऽथासः पुनर्बुधैः। उपवेशन आख्यात इच्छायां शासुराङ्युतः॥५॥ वस आच्छादने प्रोक्तो गतिशासनयोः कसिः। एके त्वनिदिदित्याहुश्शान्तोऽप्यनिदिष्यते॥६॥ णिसिस्स्याच्चुम्बने दन्त्यान्तोऽयं तालव्यपश्चिमः। इत्याभरणकारस्तु बभ्राम णि जि रुच्यते॥७॥ शुद्धावव्यक्तशब्दे स्याच्छिजि र्व र्णेऽपिजिः स्मृतः। एके सम्पर्चन इति ह्युभयत्रेति केचन॥८॥ अन्येऽवयव इत्याहुश्शब्देऽव्यक्त इतीतरे। पृजीत्येके वर्जने स्याद्वृजीर्दन्त्योष्ठ्यपूर्वकः॥९॥ प्रोक्तोऽसाविदिदित्यन्ये पृचीस्सम्पर्जनस्स्मृतः। षूङ्भवेत्प्राणिनां गर्भप्रविमोचनकर्मणि॥१०॥ शीङ् स्वप्नेऽथ स्तुचरमाः परस्मैपदिनो ञितः। युर्...