Kṛṣṇakarṇāmṛtam, with the Suvarṇacaśaka Ṭīkā of Pāpayallayya Sūri - 1
यन्नामीसरसीरुहान्तरपुटे भृङ्गायमाणो विधि र्यद्वक्षः कमलाविलाससदन यच्चक्षुषी चेन्द्विनौ । यत्पादाब्जविनिःसृता सुरनदी शंभोः शिरोभूषणं यन्नामस्मरणं धुनोति दुरितं पायात्स नः केशवः ।। चिन्तामणिर्जयति सोमगिरिर्गुरुर्मे शिक्षागुरुश्च भगवाञ्शिखिपिच्छमौलिः । यत्पादकल्पतरुपल्लवशेखरेषु लीलास्वयंवररसं लभते जयश्रीः ।। १ ।। चिन्तामणिरिति । चिन्तामणिर्नाम मन्त्रविशेषो यच्चिन्तनवशात्कृतार्थोऽभूत्कविः । स जयति सर्वोत्कर्षेण वर्तत इत्यर्थः । ननु ’गुरुं प्रकाशयेद्धीमान्न तु मन्त्रं प्रकाशयेत्’ इत्यादिना मन्त्रो न प्रकाश्यत इति चेन्न, ’तच्चिन्तामणिमन्त्रचिन्तनफले’ इत्यादिना श्रीहर्षेण प्रकाशितत्वात् स्मृतिस्तु साध्यमन्त्रविषया, न तु सिद्धमन्त्रविषयेति ज्ञेयम् । यद्वा चिन्तामणिरिति कश्चिद्योगी यत्संनिधाने कविना योगाभ्यासः कृतः । यद्वा चिन्तामणिरिति । श्रीकाकुलेश्वरानुग्रहवशान्निर्मलान्तरङ्गा काचिद्वारवनिता । यद्वा चिन्तामणिरिति सोमगिरेर्विशेषणम् । अस्मिन्पक्षे चिन्तामणिवदभीष्टार्थप्रदा सोमगिरिर्नाम काचिद्वारवनिता । यद्वा उक्तविशेषणविशिष्टः सो...