Dhātukārikā - Adādigaṇaḥ
॥ अथ आदादयः ॥
परस्मैपदिनौ स्यातामथ द्वौ भक्षणे त्वदः।
हिंसागत्योर्हनोऽनिट्कावुभावेतौ स्मृतावथ॥१॥
स्वरितेतश्च चत्वारो द्विषोऽप्रीतौ स्मृतो दुहः।
प्रपूरणे दोहनं हि प्रपूरणमूदाहृतम्॥२॥
तथोपचय आख्यातो दिह आस्वादने लिहः।
व्यक्तायां वाचि चक्षिङ् स्याद्दि्वषाद्याः पञ्च चानिटः॥३॥
दर्शनेऽपि च चक्षिङ् स्यादनुदात्तानुबन्धकाः।
पृच्यन्तास्स्युः पञ्चदशेरस्तु स्याद्गतिकम्पयोः॥४॥
ईडस्स्तुतावथैश्वर्य ईशोऽथासः पुनर्बुधैः।
उपवेशन आख्यात इच्छायां शासुराङ्युतः॥५॥
वस आच्छादने प्रोक्तो गतिशासनयोः कसिः।
एके त्वनिदिदित्याहुश्शान्तोऽप्यनिदिष्यते॥६॥
णिसिस्स्याच्चुम्बने दन्त्यान्तोऽयं तालव्यपश्चिमः।
इत्याभरणकारस्तु बभ्राम णिजिरुच्यते॥७॥
शुद्धावव्यक्तशब्दे स्याच्छिजिर्वर्णेऽपिजिः स्मृतः।
एके सम्पर्चन इति ह्युभयत्रेति केचन॥८॥
अन्येऽवयव इत्याहुश्शब्देऽव्यक्त इतीतरे।
पृजीत्येके वर्जने स्याद्वृजीर्दन्त्योष्ठ्यपूर्वकः॥९॥
प्रोक्तोऽसाविदिदित्यन्ये पृचीस्सम्पर्जनस्स्मृतः।
षूङ्भवेत्प्राणिनां गर्भप्रविमोचनकर्मणि॥१०॥
शीङ् स्वप्नेऽथ स्तुचरमाः परस्मैपदिनो ञितः।
युर्मिश्रणेऽमिश्रणे च रुश्शब्दे हिंसने गतौ॥११॥
वृद्धौ च सौत्रस्तुरनिडथणुस्स्तुतिकर्मणि।
टुक्षुश्शब्दे प्रस्रवणे ष्णुराच्छदनकर्मणि॥१२॥
ऊर्णुञ् द्युस्स्यादभिगमे प्रसवैश्वर्ययोस्तुषुः।
प्रसवस्त्वभ्यनुज्ञानं कुश्शब्दे ह्यनिटाविमौ॥१३॥
ष्टुञ्स्यात्स्तुतौ ब्रुञ् तु वाचि व्यक्तायामनिटाविमौ।
ञित्त्वात्पदद्वयार्हौ च परस्मैपदिनस्त्विङम्॥१४॥
विहाय शासु पर्यन्ता अष्टाविंशतिसङ्ख्यकाः।
इण्गताविङ्त्वध्ययनेऽधिपूर्वोऽभिमतस्सदा॥१५॥
स्मरणे स्यादिगयम-प्यधिपूर्वस्सदा मतः।
वीरस्स्यद्गतिव्याप्तिकान्तिप्रजनासमखादने॥१६॥
गर्भग्रहस्स्यात्प्रजनो ह्यसनं क्षेपणं मतम्।
ईकारोऽत्रान्यधातुस्सन् प्रश्लेषात्सम्मतस्स्ताम्॥१७॥
याः प्रापणे गतिस्तद्धि वा गतौ गन्धनेऽपि च।
गन्धनं सूचनं दीप्तौ भाश्शौचे ष्णा इहोच्यते॥१८॥
श्रातिरत्र भवेत्पाक आदन्तानां हि मध्यभाक्।
द्राः कुत्सायां गतौ प्सा स्याद्भक्षणे पास्तु रक्षणे॥१९॥
रा स्याद्दाने ला आदानो दाने स्यातामुभाविति।
प्राह चन्द्रो दाब्लवने ख्याः स्यात्प्रकथनेऽस्य तु॥२०॥
संपूर्वकस्याप्रयोगं न्यासकारोऽनुमन्यते।
मास्स्यान्मानेऽकर्मकोऽयमुपसर्गवशेन तु॥२१॥
आर्थान्तरे सकर्मातः प्रयोगो विदुषामसौ।
उदरं मुष्टिना कोऽपि परिमातीति सङ्गतः॥२२॥
वच धातुस्तु विदुषां संमतः परिभाषणे।
प्रयुज्यते नान्तिपरो बहुसंख्यापरो न हि॥२३॥
इत्यन्ये झिपरो नेति परे प्राहुर्मनीषिणः।
इण्णाद्यावचपर्यन्ता धातवस्त्वनिटो मताः॥२४॥
विदो ज्ञानेऽस्तिराख्यातो भुवि शुद्धौ मृजूष् भवेत्।
रुदिरश्रुविमोके स्याञ्ञिष्वप्छय उदाहृतः॥२५॥
श्वसस्स्यात्प्राणनेऽनश्च जक्षो भक्षणहासयोः।
जागृनिद्राक्षये प्रोक्तो दरिद्रा दुर्गतौ स्मृतः॥२६॥
तथा दीप्तौ च कासृ स्याच्छासुस्स्यादनुशासने।
दीप्तिदेवनयोः प्रोक्तो दीधीङ्ङित उपक्रमात्॥२७॥
छन्दसा धातवः पञ्च प्रोक्तावेवीङ्तु वेतिना।
तुल्येऽथस्युर्धातवोऽत्र परस्मैपदिनस्त्रयः॥२८॥
षसस्सस्तिर्भवेत्स्वप्ने वशः कान्तौ प्रकीर्तितः।
कान्तिरिच्छा चर्करीतं चेत्यत्र गणसूत्रकम्॥२९॥
यङ्लुगन्तमदादौ हि बोध्यमित्यर्थकं स्मृतम्।
उक्तोऽपनयने ह्नुङ्तु सम्मतोऽनिडयं सताम्॥३०॥
॥ इत्यदादयः ॥
Comments