Dhātukārikā - Juhotyādigaṇaḥ
॥ अथ जुहोत्यादयः॥
हुर्दानादनयोः प्रोक्त आदाने चेति केचन।
प्राहुर्भाष्ये प्रीणनेऽपीत्युक्तं दानपदस्य तु॥१॥
प्रेक्षपोऽर्थस्सोऽपि वै धा धारे च हविषामिति।
स्वभावाल्लभ्यत इतश्चत्वारस्स्युरनुक्रमात्॥२॥
परस्मैपदिनोऽथ स्याञ्ञिभीर्भय उदाहृतः।
ह्रीर्लज्जायां पालने च पूरणे चापि पॄर्मतः॥३॥
ह्रस्वान्तोऽयमिति त्वन्ये धारणे पोषणे डुभृञ्।
माङ्स्यान्माने च शब्दे च गताव हाङ् स्मृतस्ततः॥४॥
ओहाक्त्यागे भवेत्सोऽयं परस्मैपदभाजनम्।
डुदाञ्दाने डुधाञ्तु स्याद्धारणे पोषणेऽपि च॥५॥
त्रयस्स्युस्स्वरितेतोऽथ णिजिर् शौचे च पोषणे।
विजिर् भवेत्पृथग्बावे विषॢ व्याप्तौ प्रकीर्त्यते॥६॥
परस्मैपदिनोऽथ स्स्युश्छान्दसा आगणान्ततः।
घृस्यात्क्षरणदीप्त्योर्हृ प्रसह्यकरणे स्मृतः॥७॥
गतावृसृ भवेतां द्वावृ भाषायामपि स्मृतः।
भसो भर्त्सनदीप्त्योस्स्यात्किर्ज्ञाने त्वरणे तुरः॥८॥
धिषश्शब्देऽथ धान्ये स्याद्धनोऽथ जनने जनः।
गास्स्यात्स्तुतौ जुहोत्याद्याः ससर्त्यन्ताश्च धातवः॥९॥
चिकेतिश्च जिगातिश्चाप्यनिट्स्स्युरिहोदिताः॥१०॥
॥ इति जुहोत्यादयः ॥
Comments