Kṛṣṇakarṇāmṛtam, with the Suvarṇacaśaka Ṭīkā of Pāpayallayya Sūri - 1

यन्नामीसरसीरुहान्तरपुटे भृङ्गायमाणो विधि
    र्यद्वक्षः कमलाविलाससदन यच्चक्षुषी चेन्द्विनौ ।
यत्पादाब्जविनिःसृता सुरनदी शंभोः शिरोभूषणं
    यन्नामस्मरणं धुनोति दुरितं पायात्स नः केशवः ।।

चिन्तामणिर्जयति सोमगिरिर्गुरुर्मे
    शिक्षागुरुश्च भगवाञ्शिखिपिच्छमौलिः ।
यत्पादकल्पतरुपल्लवशेखरेषु
    लीलास्वयंवररसं लभते जयश्रीः ।। १ ।।

चिन्तामणिरिति । चिन्तामणिर्नाम मन्त्रविशेषो यच्चिन्तनवशात्कृतार्थोऽभूत्कविः । स जयति सर्वोत्कर्षेण वर्तत इत्यर्थः । ननु ’गुरुं प्रकाशयेद्धीमान्न तु मन्त्रं प्रकाशयेत्’ इत्यादिना मन्त्रो न प्रकाश्यत इति चेन्न, ’तच्चिन्तामणिमन्त्रचिन्तनफले’ इत्यादिना श्रीहर्षेण प्रकाशितत्वात् स्मृतिस्तु साध्यमन्त्रविषया, न तु सिद्धमन्त्रविषयेति ज्ञेयम् । यद्वा चिन्तामणिरिति कश्चिद्योगी यत्संनिधाने कविना योगाभ्यासः कृतः । यद्वा चिन्तामणिरिति । श्रीकाकुलेश्वरानुग्रहवशान्निर्मलान्तरङ्गा काचिद्वारवनिता । यद्वा चिन्तामणिरिति सोमगिरेर्विशेषणम् । अस्मिन्पक्षे चिन्तामणिवदभीष्टार्थप्रदा सोमगिरिर्नाम काचिद्वारवनिता । यद्वा उक्तविशेषणविशिष्टः सोमगिरिर्नाम महावाक्योपदेष्टा गुरुः संप्रदायप्रवर्तकः, मे मम गुरुर्जयति । शिक्षागुरुः अन्तर्यामितया शिक्षकः शिखिनो मयूरस्य पिच्छं बर्हं मौलौ शिरसि यस्य स तथोक्तः भगवान् षङ्गुणैश्वर्यसंपन्नः श्रीकृष्ण इत्यर्थः । सोऽपि जयति । येषां पादा एव कल्पतरुपल्लवशेखराणि कल्पवृक्षकिसलयश्रेष्ठानि, तेषु विषये, जयश्रीः लीलाः विलासाः, ताभिर्युते स्वयंवरे रसमनुरागं लभते । ‘लीला विलासक्रिययोः’ ‘गुणे रागे द्रवे रसः ’ इत्युभयत्राप्यमरः । कृष्णादिपादविषयकस्वयंवरानुरागं प्राप्तवती जयश्रीरित्यर्थः । रूपकालंकारः ।। १ ।।

एवं मङ्गलं कृत्वा ‘तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ इत्यादिना कर्मजन्यफलस्यानित्यत्वप्रतिपादनात्कर्मानुपास्यं ब्रह्मैवोपास्यमिति मनसि निधाय ब्रह्मसद्भावे प्रमाणाभावादनन्यगत्या कर्मैवोपास्यमिति वदन्तं पूर्वमीमांसकं प्रति ‘सत्यं विज्ञानमानन्दं ब्रह्म’ ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादिश्रुतिवाक्यान्येव ब्रह्मणि प्रमाणमिति मनसि निधायाह—

अस्ति स्वस्तरुणीकराग्रविगलत्कल्पप्रसूनाप्लुतं
    वस्तु प्रस्तुतवेणुनादलहरीनिर्वाणनिर्व्याकुलम् ।
स्रस्तस्रस्तनिरुद्धनीविविलसद्गोपीसहस्रावृतं
    हस्तन्यस्तनतापवर्गमखिलोदारं किशोराकृति ॥२॥

प्रस्तुतस्य प्रकृतस्य श्रेष्ठस्य वा वेणुनादस्य लहर्या उत्सेकेन जायमानं यन्निर्वाणं सुखं तेन निर्व्याकुलं निश्चलचित्तम्, वेणुगानजनितसुखमनुभवद्विद्यमानमित्यर्थः । अनेन ज्ञानानन्दस्वरूपत्वमुक्तम् । स्वस्तरुणीनां नाकस्त्रीणां कराग्रेभ्यो हस्ताग्रेभ्यः विगलत्कल्पप्रसूनैः पतत्पारिजातकु- सुमैः आप्लुतं पूजितम् । स्रस्तस्रस्ताः स्रस्तसदृश्यः ताश्च ता निरुद्धाश्चेति विशेषणसमासः । स्रस्तस्रस्तेत्यत्र ‘प्रकारे गुणवचनस्य’ इति सादृश्यार्थे द्विर्भावः । यद्वा अभीक्ष्ण्ये वा द्विरुक्तम् । तथा च अत्यन्तं स्रस्ता इत्यर्थः । ‘कर्मधारयवदुत्तरेषु’ इति कर्मधारयवद्भावात् ‘पुंवत्कर्मधारय’ - इति पुंवद्भावः । स्रस्तसदृशीभिरत्यन्तं वा स्रस्ताभिः करैर्निरुद्धाभिः नीविभिर्वस्त्रग्रन्थिविशेषैः विलसन्तीनां विशेषेण चारुतामापन्नानां गोपीनां सहस्रैः आवृतम् । अनेकगोपिकावृतेर्गोपालकावृत्यविनाभूतत्वाद् गोपालतदन्यसत्त्वानामप्यावृतिरुक्ता । गोगोपगोपीजनावृत इत्यर्थः । हस्ते न्यस्तो दत्तः नतानां नम्राणामपवर्गो मोक्षो येन तत्तथोक्तम् । अखिलेषु सर्वांशेषु, वस्त्रभूषणवनमालावयवसौष्ठवाद्यंशेष्वित्यर्थः । उदारमधिकम् । अनेन दिव्यपीताम्बरधरत्वपूर्णचन्द्रनिभाननत्वकौस्तुभोरस्कत्वादिकं चोक्तम् । ‘उदारो दातृमहतोः’ इत्यमरः । किशोरस्य षोडशवर्षरूपवयोविशेषयुक्तस्य, ‘वय आ षोडशाद्बाल्यम्’ इति बाहडोक्तेः । आकृतिरवयवसंस्थानविशेषः, तद्वदाकृतिर्यस्य तत्तथोक्तम् । एतादृशं वस्तु ब्रह्मास्ति । वस्तुशब्देन सत्यत्वमुक्तम् । वस्तुनिर्वाणनिर्व्याकुलशब्दैः सत्यज्ञानानन्तादिश्रुतिवाक्यानि प्रमाणमित्युक्तम् । स्रस्तस्रस्तेत्युपमा, किशोराकृतीति निदर्शना, तयोः संसृष्टिः ॥२॥

एवं सप्रमाणकं ब्रह्म प्रतिपाद्य तदाराधयामीत्याह-

चातुर्यैकनिधानसीमचपलापाङ्गच्छटामन्थरं
    लावण्यामृतवीचिलालितदृशं लक्ष्मीकटाक्षादृतम् ।
कालिन्दीपुलिनाङ्गणप्रणयिनं कामावताराङ्कुरं
    बालं नीलममी वयं मधुरिमस्वाराज्यमाराध्नुमः ।।

चातुर्याणां चमत्काराणामेकनिधानं मुख्यनिक्षेपः तस्य सीमानः अवधिभूताः, अत्रैव समस्तचातुर्याणि निक्षिप्तानि नान्यत्रेति मर्यादाभूता इत्यर्थः । ताश्च ताः चपलापाङ्गच्छटाः चञ्चलकटाक्षसमूहाः, ताभिर्मन्थरो भारवांस्तम्, अतिचमत्कारयुक्तचञ्चलकटाक्षयुक्तमित्यर्थः । लावण्यं स्वनिष्ठकान्तिविशेषः । तदुक्तम् - ‘मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥’ इति । तदेवामृतम्, तस्य वीचयस्तरङ्गाः, ताभिर्लालिते संमानिते दृशौ प्रेक्षकदृशौ स्वनेत्रे वा यस्य तम्; अतिसुन्दरनेत्रमित्यर्थः । लक्ष्मीकटाक्षादृतं लक्ष्म्या अत्यादरेण कटाक्षैः पुनः पुनर्दृष्टमित्यर्थः । कालिन्द्या यमुनायाः पुलिनाङ्गणे सैकतप्रदेशविशेषे प्रणयिनं प्रेमवन्तम्, कामावतारस्य प्रद्युम्नोत्पत्तेः अङ्कुरं कारणम्, मधुरिम्णां सकलसौन्दर्याणां स्वाराज्यं स्वर्गराज्यम्, स्वर्गराज्यवदुत्कृष्टम्, अतिसुन्दरमित्यर्थः । नीलं नीलवर्णं बालमर्भकं षोडशवार्षिकं वा अमी वयम् एतादृशसंसारबद्धा वयम् आराध्नुमः ध्यायामः । रूपकालंकारः ॥ ३ ॥

ध्यायमानं सद्यथा प्रतीयते तं प्रकारमाह-

बर्होत्तंसविलासिकुन्तलभरं माधुर्यमग्नाननं
    प्रोन्मीलन्नवयौवनं प्रविलसद्वेणुप्रणादामृतम् ।
आपीनस्तनकुट्मलाभिरभितो गोपीभिराराधितं
    ज्योतिश्चेतसि नश्चकास्ति जगतामेकाभिरामाद्भुतम् ॥

बर्होत्तंसेन पिञ्छरूपोत्तंसेन विलासी कान्तिमान्कुन्तलधरः कचप्रचयो यस्य तत्, माधुर्यमग्नं सौन्दर्ययुक्तमाननं मुखं यस्य तत्, प्रोन्मीलत्प्रकर्षेणोद्यत् नवयौवनं यस्य तत्, प्रविलसन्स्वरभेदयुक्ततया प्रकाशमानः वेणुप्रणादः अमृतमिवेत्युपमितसमासः । उक्तविशेषणविशिष्टो वेणुप्रणादो यस्य तत्, आपीनौ समन्ताद्वर्तुलौ, घनावित्यर्थः । कुट्मलतुल्यौ स्तनौ यासां ताभिर्गोपीभिर्गोपपत्नीभिः । ‘पुंयोगादाख्यायाम्’ इति ङीप् । अभितः समन्तात् आराधितं प्रार्थ्यमानम्, जगतां सर्वेषां जनानाम् एकाभिरामं केवलसुन्दरम् । लोके सर्वं वस्तुसौन्दर्यात्सौन्दर्ययुक्तम्; इदं चेत्सुन्दरमेवेत्यर्थः । अत एवाद्भुतं विस्मयजनकम्, सकलजनमनःसन्तोषकरमित्यर्थः । एतादृशं ज्योतिः श्रीकृष्णाख्यं महः नः अस्माकं चेतसि चकास्ति प्रकाशते । वेणुप्रणादामृतं स्तनकुट्मलेति चोपमा ॥४॥

Comments

Popular posts from this blog

Does sanAtana dharma (hinduism) "approve" of LGBTQ

Hindu view of food and drink: a critique - Part 2

वन्दे वन्दारुमन्दारमिन्दुभूषणनन्दनम् ।